________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-
५
२४९
शुद्ध कान्त्या गुणेन च सन्निभम् मद्योग्यम् नाथं खरं तमपि प्रसिद्ध तव भगिनीपति भित्वा विनाश्य विराधाय पूर्व पदम् खराधिकृतं तदीयपैकपदमुपलम्भयन् मां निष्काश्य तद्राज्यं तस्मै ददौ कतिपयदिनान् असुस्थितमानसः सीताविरहविपणचेतास्तत्रैवास्थात् अवर्तिष्ट ।।
कृष्णपक्षे-परपरिचयात् परः शत्रुः तदीयपरिचयात् शत्रुव्यवहारात् अन्योऽपि यौनसंबन्धसंबद्धोऽपि आपतकृत् विपत्तिजनको भवतीति शेषः यथा कंसः स्वपितरं कारागारे निरुध्य राज्यमाच्छिद्य स्वयम् बुभूजे. आहवनाशनः कुष्णः भगवान् ऐश्वर्यसम्पन्नः तमपि पितृविरोधकारकं कंसं भित्वा विनाश्य शुचिपरिगतम् हृदयतः आचारतश्वशुद्धनिर्मलं कान्त्या गुणेन च सन्निभम् समानम् उग्रसेनम् पूर्व पदम् पूर्वोपभुक्तराज्यसिंहासनम् उपलम्भयन्प्रापयन् असुस्थितमानसः जरासंधविग्रहात चलचितः यद्वा वृन्दावनीय सहचरविश्लेषविधुरः कति. पयदिनान् कतिचिद्वासरान् तत्रैवमथुरायाम् अस्थात् आसीत् ॥२६॥ पवनजनुषा धर्माजन्ये नरोऽभिनवोत्सवः,
प्रणयवशतो वाहिन्यागात् सुखेन चलन पथि । तदनु जगति श्रद्धापूर्णो हरेः प्रियवंशजे,
लघुरपि परां प्रीतिं भेजे तदा सुहृदां पदे ॥२७॥
अन्वयः--धर्मात् अभिनवोत्सवो मरः जन्ये प्रणयवशतः पथि सुखेन चलन् भगात् पवनजनुषा वाहिनी च भागात् तदनु हरेः प्रियवंशजे श्रद्धापूर्णः तदा जगति लघुरपि सुहृदां पदे परां प्रीतिम्भेजे ॥ २७ ॥ . . . __ व्याख्या-धर्मात् पवनजनुषा पूयते अनेनेति पवनम् तच्च जनुश्चेति पवनजनुः मनुष्यशरीरम् तेन धर्मतो लब्धेन मनुष्य शरीरेण जन्ये लभ्ये वाहिनि अनादिकालतः प्रवर्त्तमाने पथि मार्गे हरेजिनेन्द्रस्य प्रियवंशजे कुलपरम्परागते स्थाद्वादे प्रणयवशतः प्रेमवशतः धर्मविष.