SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयामृत सूरिप्रणीताय मरणी टीका. तृणामनुषङ्गतो- मङ्गलाय च निवनाति श्रीनाभिजन्माऽन्वयपद्मभास्करः, स्तुतोऽञ्चितः श्रीमुनिसुव्रतान्वये । जिनः शिवायास्तु दधदृमहोदयं, स भासतां यद्भजनेजयाश्रयः ॥ १ ॥ ( अन्वयः ) यद्भजने सभासतां जयाश्रयः, श्रीनाभिजन्मान्वय पद्मभास्करः, श्री मुनिसुतान्वयेऽति: : स्तुतः, महोदयं दधत् स जिनः शिवाय अस्तु । व्याख्या - प्रथममादिनाथपक्षीया विवृतिः - यस्य - ऋषभस्य भजने भक्तौ सेवायां 'कते' इतिशेषः । सभासतां=सभ्यानां जयाश्रयः= जयाश्रयणं] बाह्याऽऽन्तररिपुकर्मक विजयावाप्तिः 'सञ्जायते' इतिशेषः । सः श्रीनामिजन्मा= श्रीयुक्त नाभिराजतनुजः, अन्वयपद्मभास्करः = स्वकीयकुलकमलोद्योतनप्रद्योतनः श्रीमुनिसुव्रतान्वये श्रीमतां मुनीनां, सुत्रतानां =त्रतान्वितश्राद्धानां चान्वये =कुले लक्षणया समूहे इत्यर्थः अञ्चितः=पूजितः सत्कृत इति यावत् स्तुतः = स्तुतिविषयीकृतः शक्रेन्द्रादिभिरिति गम्यते महोदयं = चतुस्त्रिंशदतिशय समृद्धिरूपमहैश्वर्यं दधतु धारयन् जिनः = जयति रागादीन् इति स तथोक्तः रागादि जयनशीलः शिवाय भव्यानां कल्याणाय अस्तु भवतु ་ शान्तिनाथ पार्श्वनाथ वीरपक्षे च श्रीनाभेर्जन्म उद्भवो यस्य तादृशोऽन्वयः=वंश इक्ष्वाकुवंशः सएव पद्मं तत्प्रकाशे सूर्यः, अन्यत् पूर्ववत् । श्रीनाभिजन्मान्वयपद्मभास्करः =श्रिया इनः = पतिः श्रीनः = श्रीकृष्णस्तस्याऽभिजन्म=जनिर्यस्मिन् सचासावन्वयो यदुवंश स्तद्रूपकमलोल्लासने रविः, मुनिसुव्रतान्वये = मुनिसुव्रतम्य = द्वाविंश जिनस्यान्वयः कुलं हरिवंश स्तस्मिन् अञ्चितः = पूजितः, शिवायाः = तन्नामिकाया निजज
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy