________________
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धान महाकाव्ये
यस्योपदेशवचनामृत से कलेशः,
सद्योऽज्ञन्मरुधरेऽपिनिपत्य सम्यक् ।
तने मिसूरिनववारिदमानमामि ॥ ३ ॥
वेदं हि मेघविजयस्यगभीरकाव्यम् ।
काहन्तथापि रभसाद्विवृतिं करोमि ॥ ४ ॥
सङ्ग्राहकस्य मम मेघवचः प्रवृत्तिः ।
केकेवकिन्न हिसदाभविनां कवीनाम् ।। ५ ।।
प्रोद्भावयत्यति सुपुण्य विशालकन्दं,
सप्तार्थसङ्ग्रथन कौशल चञ्चुबुद्धेः,
काव्यार्थभावन विधावतिमन्दबुद्धिः,
श्रीमद्गुरोः कतिपयाक्षरसत्सुधानां,
सच्छास्त्रशुद्धमनसां मनसां मुदेस्या
सप्तसंधानकाव्येऽस्मिन् सरणी क्रियते मया । इमामालम्ब्य विद्वांसः प्रवत्र्यन्तीह निर्भयम् ॥ ६॥
ऐदयुगीन चतुर्विंशति तीर्थकृतांमध्ये प्रथम पोडश-द्वाविंश-त्रयोविंश चतुर्विंशानां क्रमतः श्रीमदादिदेव शान्तिनाथ- पार्श्वनाथ नेमिनाथ - महावीरस्वामीनां प्राधान्यात् - विचित्र पवित्र चरित्र तया, पुण्य प्रारभारसम्पन्नतया च वासुदेव - बलदेवानां च मध्ये स्व-पर दर्शनेषु श्रीकृष्ण-रामयो देवाऽतिप्रसिद्धतया तेषां चरित्रवर्णनात्मक स्तुतिव्याजेन प्रपाणकरसन्यायेन एकेनैव काव्येन सप्तपुरुषोत्तमसत्तमचरिताऽमृताऽऽस्वादजन्याऽनन्यसामान्यसान्द्रानन्दसन्दोह मनुभवितुं पराँश्चानुभावयितुं 'सप्तसन्धाना' ऽभिधानमन्वर्थनामानं महाकाव्यं चिकीर्षु ग्रन्थकुद् विघ्नविघातायाऽविगानेन शास्त्रपरिसमाप्त्यर्थमाशीर्वादात्मकं मङ्गलमाचरन् शिष्यशिक्षायै श्रोत - व्याख्या