SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ४ महोपाध्यायश्रीमेवविजयगणिविरचिते सप्तसन्धानमहाकाव्ये नन्याः महोदयं तीर्थकृजनिजनितजगद्वन्धतायात्मकसौभाग्यं दधत्= सम्पादयन् स जिनो नेमिनाथारव्यः भासतां-प्रकाशताम् शेषं पूर्ववत् शान्तिनाथपक्षव्यावर्णितदिशा चतुर्विंशति जिनसामान्यस्य स्तुत्यात्मकमिदंपद्यमवगन्तव्यं नेमिनाथ-मुनिसुव्रतवर्ज सर्वेषामिक्ष्वाकुवंशप्रभवत्वात् तत्र नेमिनाथ पक्षोचितप्रकारः परिदर्शित एव । मुनि सुव्रतान्वये-मुनिसुव्रतायाः स्वमातुः अन्वये-पितृवंशे श्वशुरवंशे च अश्चितः-अर्चितः उभयकुलानन्दकरत्वात् । श्रीनाभिजन्मान्वयपद्मभास्करत्वं तु नेमिनाथपक्षवर्णितदिशाबसेयमिति. श्रीअहंदाद्यः कृतशान्तिसर्गः, समुद्रजन्मानबराजवर्गः । श्रीपाश्वनाथः शुभवर्द्धमानः, श्रियाऽभिरामस्तमिह स्मरामः॥ २ ॥ (अन्वयः) इह [ग्रः] अर्हदाद्यः कृतशान्ति मर्गः समुद्रजन्मा नवराजवर्गः श्रीपार्श्वनाथः शुभवर्द्धमानः श्रियाभिरामश्च तम् स्मरामः ॥ २ ॥ व्याख्या-प्रवृत्तिनिमित्तभूत सप्तशलाकापुरुषचरितवर्णनात्मकं विधेयं तत्स्मरणव्याजेन दर्शयन्नाह-श्री इत्यादि । इहअस्मिन् काव्ये, यत्तदोनित्यसम्बन्धादग्रेतनतमित्यनुरोधात् यः श्रीअर्हदाद्यः श्रीमता महतां चतुर्विंशति तीर्थकृताम् आद्यः= प्रथमः ऋपभदेव इत्यर्थः। कुनशान्तिसर्गः-कृतः-सम्पादितः शान्ते:सकलोपप्लवप्रशमनस्य सर्गःसृष्टिरुत्पत्तियन स तथोक्तः। समुद्र जन्मा नवराजवर्ग:मुदा-हर्पणसहितः समुद्-सहर्पः रजन्-रागवान् मानवानां राज्ञां च वर्ग:-समूहोयस्मिन् सतथोक्तः । श्रीपार्श्वनाथःपार्श्व-समीपे (सेवार्थमागताः) नाथाः-इन्द्रादयो यस्य स तथोक्तः । शुभवर्धमानः-शुभेन वर्धते इति, शुभं वर्धमानमस्मादिति, शुभं
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy