SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २२४ महोपाध्यायधीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये अशितममुना यावद् वर्ष न तादृशयोगतो, बहुमहिमवान् शान्तिप्रेम्णा स्थिरो हिमवानिव ॥ अभजत परच्छायामायासतः श्रमवान् नवा, वपुषि समतां बिभ्राणः स्वैः सवै-श्रमणोचिताम्॥१०॥ अन्वयः-अमुना तादृशयोगतः यावर्षन्न अशितम् शान्तिप्रेम्णा बहुम. हिमवान् हिमवान् इव स्थिरः आयासतः श्रमवान् न वा स व स्वैः वपुषि श्रमणोचिताम् समताम् बिभ्राणः परच्छायां अभजत ॥ १० ॥ व्याख्या-- अमुना जिनेश्वरेण न तादृशयोगतः तादृशयोगस्य निरवद्यभिक्षालामजनकयोगस्य अभावात् यावद्वर्ष वर्षपर्यन्तं न अशितं न भुक्तं शान्तिप्रेम्णा शमाभिनिवेशेन बहुमहिमवान् महतो. भावो महिमा बहु अतिशयं महिमा महत्वं यस्य स अतिशयगौरवान्वितः हिमवानिव हिमालय इव स्थिरः शान्तः यथा हिमवान् निश्च लस्तथा शान्त्याश्रयनेन भूरिमहिमतया दुर्जनादिकृतोपजापेऽपि निराकुल इति तात्पर्य आयासतः गमनागमनादिपरिश्रमतोऽपि श्रम वान्न वा नैवश्रान्तः स वै प्रभुः स्त्रैः स्वत एव वपुषि शरीरे श्रमणोचितां यतिविहितां मुनिप्रचलितां समतां सामरस्यं बिभ्राणः धारयन् परच्छायामुत्कृष्टकान्ति सर्वतोऽधिकां दीप्ति अमजत आश्रयत लोको. त्तरकान्तिरभवत् ॥१०॥ रामकृष्णपक्षे-यावद्वर्ष जम्बूद्वीपांशभेदं यावत् भरतक्षेत्रखण्डत्रयमितियावत् अमुना रामेण कृष्णेन वा अशितं व्याप्तं अधिकृतस्वशासनं " अशेः आदिकर्मणि क्तः सेटकत्वं च” नतादृशयोगतः नतानां स्वशरणमुपगतानामासमन्तात् सर्वतोभावेन दृशयोगतो नेत्र पाततः दयावलोकनतः बहुमहिमवान् अतिशयमहिमासम्पन्नः शान्तिप्रेम्णा शान्तिवात्सल्येन हिमवान् हिमालय इव स्थिरः अप्रकम्पः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy