________________
भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २२५ आयासतः वनभ्रमणतः प्रजारक्षणतः श्रमवानवा नैव श्रान्तः स्वैः स्वत एव स्वप्रभावादेव वपुषि शरीरे समता विभ्राणः वैश्रमणोचितां कुबेरतुल्यां परच्छायामत्युत्कटकान्ति अभजत समाश्रयत ॥ ११ ॥ पथि कथमपि श्रान्तः कान्तानुयायिविलम्बित
स्तपसि रसिकस्तस्थौ मार्गेऽभयः स्वयमप्ययम् । वनचरधने दृष्टे दृष्टेर्दधौ न विपर्ययं,
मनसि समयस्यैवं न्यायं विचिन्त्य सपर्ययम्॥११॥
अन्वयः-पथि कथमपि श्रान्तः कान्तानुयायिविलम्बित: तपसि रसिकः भयम् स्वयमपि मार्गे अभयस्तस्थौ मनसि समयस्यैवं सपर्ययं न्यायं विचिन्त्य वनचरधने दृष्टे दृष्टेः विपर्ययनदधौ ॥ ११ ॥
व्याख्या--पथि मार्गे कथमपि यथातथा श्रान्तः जातश्रमः कान्तानुयायिविलम्बितः कान्तो मनोरमो योऽनुयायी अनुसरणशील. स्तेन विलम्बितः आश्रितः कृतधर्मकथानकः तपसि तपश्चर्यायां रसिका निरतः अयम् जिनेश्वरः स्वयम् आत्मनापि अभयः निर्भीकः मागें पथि तस्थौ स्थितः समयस्य कालस्य अवस्थायाः वा सपर्ययम् पर्ययो चैपरीत्यम् तेन सहितम् सपर्ययम् सवैपरीत्यं न्यायं नीति मनसि हृदये विचिन्त्य विचार्य निश्चित्य वनचरधने वनचराणाम् विपिनवासिनां धने रिक्थे पर्वतीयमण्यादौ निर्मायिको योषिति च दृष्टे नय.. नगोचरे सत्यपि दृष्टे त्रस्य विषयेयम् विपर्यासम् तद्विषयाभिलापं न दधौ न धृतवान् दृष्टेऽपि विषये विषयाभिलाषो न जात इति भावः ॥
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीरा इत्यपि सङ्गच्छते ॥ ११ ॥
रामकृष्णपक्षे-पथि मागै वनमार्ग अन्यत्र रैवतकादौ विहारमार्गे कथमपि श्रान्तः जातायासः कान्तानुयायिविलम्वितः कान्ता स्वप्रिया