________________
आचाय श्रीविजया मृतसूरिप्रणीता सरणी टीका. सर्ग - ५
वचनविजने तस्थौ स्वस्थो ररक्ष न रक्षकं, न खलु परतो रक्षापेक्षा प्रभौ हरिणाश्रिते ॥ ९ ॥
२२३
अन्वयः :--नाथः प्रियं यदि वाऽप्रिये किमपि मनसा नाधात् कलिमलमपि व्यक्तः त्यक्तुं क्वचिद्वहः प्रययौ स्वस्थः क्वचनविजने तस्थौ रक्षकं न ररक्ष हरिपाश्रिते प्रभौ परतो रक्षापेक्षा न खलु ॥ ९ ॥
व्याख्या --- नाथः प्रभुः मनसा बुद्धया कमपि प्रियं शरीरसु. खकरं दुःखजनकं वा नाधात् नाविन्दत प्रियं प्राप्य सुखाभिमानी अप्रियं प्राप्य दुःखाभिमानी न बभूवेति तत्वं व्यक्तः स्फुटं कलिमलमपि कलेः कर्मणः मलमपि परिणाममपि " प्रभौ पापस्य दुर्लभत्वात् कलिशब्देन कर्म एव लक्ष्यते" त्यक्तुन्निराकर्तुम् क्वचित् कुत्रापि रहः विजनमेकान्तस्थानम् प्रययौ जगाम स्वस्थः निराकुलः निर्भीकः सन् क्वचन विजने निर्मनुष्य के स्थले तस्थौ स्थितवान् रक्षकम् शरीरपरिपालकम् कमपि न ररक्ष नापेक्षितवान् तथाहि प्रभौ हरिणाश्रिते प्रमौ जिनेश्वरे हरिणाश्रिते संयमाश्रिते सति अथवा इन्द्राश्रिते तति इन्द्राधिष्ठिते सति दिशाश्रिते विहरमाणे सतीति वा परतः अन्यतः स्वभिन्नात् रक्षापेक्षा पालनापेक्षा न खलु नैव भवतीत्यर्थः स्ववीर्यगुप्ता एते भवन्तीति भावः अर्थान्तरन्यासालंकारः ॥
रामपक्षे कृष्णे च - कमपि प्रियम मित्रं यदिवा अथवा अप्रिय शत्रुम् मनसा चित्तेन न अधात् न धृतवान् कलिमलमपि विरोधपरिणामं युद्धमपि त्यक्तुं परित्यक्तुं कचित् कुत्रापि व्यक्तः स्पष्टः सन् रहः एकान्तं प्रययौ विजने निर्जने स्वस्थः अकुतञ्चनभयः तस्थौ रक्षकं न ररक्ष नापेक्षितवान् हरिणाश्रिते लक्ष्मणाधिष्ठिते समुद्राश्रिते च प्रभौ प्रभावशालिनि रामे कृष्णे च परतः अन्यतः सैन्यादिभिन्नपुरुषात् रक्षापेक्षा पालनाभियोगः न नैव भवतीति ॥ ९ ॥