________________
२२२ महोपाध्यायत्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये मनमवश्यम्भावीति निश्चित्य अलमतिशयं के कृष्ण भगवति ऐश्वर्य शालिनि आरागं समन्ततोऽनुरागं प्रतीत्य ज्ञात्वा विचार्येत्यर्थः श्लेषः।। गिरिश इव योऽशेताद्रीणां वनेऽनवनेऽप्ययं,
तमपि विदधद् दृश्यं वश्यं गिरीशमिवापरम् । दिनकर इवोदामं धाम प्रपद्य भुजावले,
परिजनगणव्यावृत्याऽग्रे चचाल विशालधीः॥॥
अन्वयः-योऽयम् अनवनेऽपि अद्रीणां बने गिरिश इव अशेत तमपि अपरं गिरीश मिव वश्यं दृश्यम् विदधत् भुजाबले दिनकर इव उद्दामम् धाम प्रपद्य परजनगणव्यावृत्या विशालघी: अग्रे चचाल ॥ ८ ॥
व्याख्या-योऽयं जिनेश्वरः अनवने अपि अवनम् रक्षणम् नभवतीति अनवनर अरक्षणम् तस्मिन् रक्षारहितस्थाने निर्जने इत्यर्थः अद्रीणां पर्वतानां वनेऽरण्ये गिरिश इव गिरी शेते इति गिरिशः वनीयो भिल्लादिः स इव अथवा गिरिम् श्यति उपभोगेन तनू करोतीति गिरिशः "लोमादित्वाच्छः" शिवः स इव शेते स्वपिति यः सर्वदा गिरियो भवति स कदाचिदपि दृश्यो न भवति तमपि गिरिशमपि स्वमितिशेषः अपरम् द्वितीयम् गिरीशम् शिवम् इच अथ वा गिरीणामीशः हिमालयस्तमिव दृश्यम् दर्शनयोग्यम् वश्यम् प्रसादसुमुखम् सेवायोग्यम् विदधत् कुर्वत् उद्दामधाम उद्रिक्तं तेजः भुजा. बले बाहौ दिनकर इव प्रपद्य प्राप्य परिजनगणव्यावृत्त्या परिचारकजनपरित्यागेन विशालधीः महानुभावः अग्रे ततोप्यग्रतः चचाल ववाज ॥८॥ सर्वपक्षसामान्यमेतद्व्याख्यानम् ।।। कमपि मनसा नाधान्नाथः प्रियं यदिवाऽप्रियं,
कलिमलमपि त्यक्तुं व्यक्तः कचित्प्रययौ रहः ॥