SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ माधार्य श्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-५ २२॥ रामपक्ष- सहचरतया अनुचरतया तदा वनगमनकाले चरणा. दिषु रामगमनादिषु ये संजाताः अनुसृतास्तेऽपि रामेण परित्यक्ततया निरसनतया हरशेखरां भुवम् अतिशयपवित्रामयोध्यापुरम् प्रागच्छन्ति स्म किं कृत्वा सुरसमुदिताम् सुरन्ति ऐश्वर्यदीप्तिम प्राप्नुवन्तीति सुराः धनिनस्तैः समुदिताम् संमिलितामयोध्याम् सिन्धोः समुद्रस्य पारे तटे भवस्य भवत्यसिन्निति भवः पृथ्वीतलस्तस्य परम्पराक्रमणवशतः सततगयनवशतः लङ्कारागम् लंकायां तन्नामपुर्यां रागोऽनुरागो यस्य तम् महापदम् भयङ्करम् रावणमित्यर्थः प्रतीत्य बुध्वा तत्र वने लंकापतिर्वसतीति भयमुत्प्रेक्ष्य निवृत्ता इति भावः ।। तदा चरणादिषु तस्य श्रीमदादिनाथस्य आचरणादिषु दीक्षानहणादिव्यापारेषु सहचरतया अनुगामितया ये संजाताः संगता, तदानीं दीक्षां जगृहुः कच्छमहाकच्छादयः तेऽपि निरशनतया निरवद्यभिक्षालाभात् उपवासतया, भवस्य संसारस्य सिन्धो सागरस्य संसारसागरस्येत्यर्थः पारे प्रान्ते सन्निधौ परंपराक्रमणवशतः सततगमनागमनतः कारागं इन्द्रियसुखं सांसारिकवैषयिकसुखं अलम् अतिशयम् महापदम् महदुःखजनकं प्रतीत्य बुद्धा सुरसमुदितां देवाधिष्ठिताम् हरशेखरां भुवं गंगाप्रदेशं प्रापुः ते जटिलास्तापसा भूत्वा तत्रतस्थुरित्यर्थः । पारं प्रान्ते परतटे पारीपूरपरागयोरित्यनेकार्थसंग्रहः।। कृष्णपक्षे-तदा युद्धादिसमये सहचरतया सहायकतया तदा चरणादिषु तस्य जरासंधस्य आचरणादिषु युद्धादिषु संजाताः संगता स्तेपि निरसनतया कृष्णकृतोपजापतया भेदप्रयोगेण सुरसमुदिताम् महद्धिजनसंकुलाम देवाधिष्टितां वा सिन्धोः समुद्रस्य पारे स्थितामिति शेषः हरशेखरामतिपवित्रां द्वारकां प्रापुः किंकृत्य भवस्य मंगलस्य परम्पराक्रमणवशतः उत्तरोत्तरसंपादनवशतः कृष्णाश्रयेण दिनानुदिनं
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy