________________
२२०
महोपाध्यायनीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्ये
__ अन्धयः-तदा च रणादिषु सहचरतया ये संजातास्तेऽपि सिन्धोः पारे सुरसमुदिताम् भवस्य परम्पराक्रमणवशतः महापदं लंकारागं प्रतीत्य निरशनतया हरशेखराम् भुवम् प्रापुः ॥ ७ ॥
व्याख्या-तदा च रणादिषु तस्य जिनेश्वरस्यादिनाथस्य आचरणा. दिषु तदीयालौकिकचमत्कारकारिव्यापारेषु सहचरतया अनुगामितया ये संजाताः संगता अनुसृताः तेऽपि निरशनतया उपवासतया प्रभुस्तु निरवद्यमिक्षाऽलाभेन कतिचिद्दिनानि उपवसतिस्म एते पुनस्तथाविधसामर्थ्य विरहेण तथाकर्तुमशक्नुवन्तस्तंपरिजझुरितिकथासन्दर्भः । सुरसमुदितां देवताकृताधिष्टानाम् हरशेखराम् भुवम् गंगातटम् प्रापुः जग्मुः किंकृत्य सिन्धोः संसारसागरस्य पारे तटे भवस्य जन्मनः परम्पराक्रमणवशतः अनेकजन्मकृतपुण्यपुञ्जप्रभावतः समासादिते महापदम् आत्यन्तिकसुखजनकम् पुनरावृत्तिरहितम् कारागम् आसमन्ताद्रागः आरागः कस्य आत्मनः स्वस्वरूपस्य ब्रह्मणः मोक्षस्येति यावत् रागमनु. रागम् अलमतिशय प्रतीत्य परित्यज्य विहाय, संसारसागरपारगताऽपि किश्चित क्लेशमसहमाना पुनरागता इति तात्पर्यम् ।।
अन्येपामर्हतापक्षे-तदा व्रतग्रहणसमये सहचरतया अनुचरतया ये नृपतयःतदाचरणादिषु तेषां जिनेन्द्राणाम् आचरणादिषु व्रतादिन. हणेषु संजाताः संगताः व्रतं जुगृहुः तेऽपि निरसनतया सांसारिकभोगादिपरित्यागतया "शसयोरैक्यात्" हरशेखराम् हरत्यघमितिहर। पवित्रम् तस्य शेखराम् मूर्धन्यामतिशयपवित्राम् भुवम् प्रापुः लेभिरे किंकृत्य सुरसमुदितां मुष्ठरातिददातीति सुरः देवः तेन समुदिताम् सहिताम् सप्रसन्नाम् भुवमित्यर्थः भवस्य संसारसमुद्रस्य पारे परम्पराक्रमणवशतः पुनर्पुनर्गमनागमनतः महापदम् महत्संकष्टजनकम् कारागम् कस्यशरीरस्य के शरीरे चा रागमनुरागम् प्रीतिमित्यर्थः प्रतीत्य परित्यज्य ॥