________________
भाचार्यश्रीविजयाभृतसूरिप्रणीता सरणी टीका, सर्ग-५ २१९ व्याख्या-वशी जितेन्द्रियः विषयपराङ्मुखः कन्दुगाद्यम् तदाख्यशत्रुविशेषम् व्यसनरहितः सांसारिकसावधकर्मजदोषरहितः वशीकृतवान् विजितवान अथवा कन्दुगाद्यम् गेन्दादिकं क्रीडाविशेष वशीकृतवान त्यक्तवान् प्रौढायत्नात् बहुतरमनः समाधानात् स्वनिश्चितम् स्वस्य साधोः निश्चितं निरवधभिक्षान्नादिकमपि विषयम् न आदधे जग्राह यावता कथमपि प्राणयात्रानिर्वहणं तावदेव जग्राहेति भावः बहुपरिचितम् नित्यमभ्यसितम् शास्त्रम् मात्राधिकम् अतिशयम् इयत्तारहितं यथा स्यात्तथा भुवि-भुवने चालयन् प्रथयन् तत् विमृश्य लोकोत्तरमहिमास्येति विचार्य अस्य जिनेन्द्रस्य सेवारसे परिचर्यायां रसिका इति शेषः देवा लयमुपगता स्वात्मानं प्रच्छाध वृक्षादिरूपेण शिष्यादिरूपेण च तिरोभूय सिषेविरे इति भावः ।।
रामकृष्णपक्षे-वशी जितेन्द्रियः स्वतंत्र व्यसनरहितः अव्यसनासक्तः कन्दुगाद्यम् तदाख्यमान्तरशत्रुविशेषम् वशीकृतवान् स्वायत्तं विदधे स्वनिश्चितम् स्वनिर्धारितम् विषयमपि कार्यमपि परराट्रादिकमपि न प्रौढाद्यत्नात् अनायासेनैव आदधे स्वानुकूलं विदधे बहुपरिचितम् शास्त्रम् शासनम् स्वकीयमित्यर्थः मात्राधिकम् सर्वतः स्वपरमण्डले च भुवि चालयन् प्रसारयन् तत् विमृश्य विचार्य देवा धुतिमन्तो नृपाः अस्य रामस्य कृष्णस्य च सेवारसे सेवायाम् लयम् तदधीनत्वम् उपगताः प्राप्नुवन्तो वशतिनो बभूवुरितिभावः ॥६॥ सहचरतया ये संजातास्तदा च-रणादिषु,
निरशनतया तेऽपि प्रापुर्भुवं हरशेखराम् । सुरसमुदितां सिन्धोः पारे भवस्य परम्परा
क्रमणवशतो-लङ्कारागं प्रतीत्य महापदम् ॥७॥