________________
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धान महाकान्ये
-
श्रीमहावीरजिनेश्वरपक्षे – उपहृतिपदप्राप्तम् उपहियते प्राणादियस्मिन् इति उपहृतिः बाहुलकात् क्तिः तत्पदमाप्तम् प्राणहारकपदप्राप्तम् नागादिमम् अतिशयजीवारुन्तुदम् कमपिनागम् सर्पम् प्रतिबोधायेति शेषः आश्रयत् तदुपकण्ठं ययौ तदुपरिगतः तत्समीपमुप गतः कायोत्सर्गे कायोत्सर्गमुद्रामालम्ब्य पुराद्विषम् पूर्व सर्वशत्रुम् तं जिगाय तं प्रतिबोध्य सर्वद्विट्त्वं निवर्त्तयामास अन्यत्पूर्ववदव सेयम् ॥
२१८
·
रामकृष्णपक्षे - उपहृतिपदप्राप्तम् उपहारीभूतम् प्रत्यन्तनृपतिमि - रुपढौकितम् नागादिमम् हस्त्यश्वादिकं वसु धनम् आश्रयत् आत्मसा दकरोत् तदुपरि तत्पश्चात् गतः द्विषाम् रिपूणाम् कायोत्सर्गे शरीर त्यागे सति जिगाय विजितवान् मरणान्तानि वैराणीत्यनुसृत्येतिभावः रहसि विजने सुदृशा शोभननयनया सह क्रीडन् रममाणः नानागमाश्रमबद्धधीः नाना अगमे अनेकपर्वते आश्रमे गार्हस्थ्यादौ च बद्धधीः जात।मिनिवेशः, रामपक्षे नानाअगमे पर्वते - वृक्षे - वृक्षतले वा " सामीप्ये सप्तमी " आश्रमे कृतगृहबुद्धिः स्वयमपिमनः शुद्धया बुद्धया निर्मलान्तःकरणेन स रामः कृष्णश्च गाः पृथ्वीः समा अनेकवर्ष यावत् जुगोप ररक्ष पालितवान् ॥ ५ ॥
व्यसनरहितः कन्दुगाद्यं वशीकृतवान् वशी,
विषयमपि न प्रौढाद यत्नात् स्वनिश्चितमादधे । बहुपरिचितं शास्त्रं मात्राधिकं भुवि चालय
लयमुपगता देवाः सेवारसेऽस्य विमृश्य तत् ॥६॥
अन्वयः -- -वशी व्यसनरहितः कन्दुगाद्यम् वशीकृतवान् प्रोढाद्यत्नात् स्वनिश्चितम् विषयमपि नादधे बहुपरिचितम् शास्त्रम् मात्राधिकम् भुवि चालयन् तत् विमृश्य देवाः अस्य सेवारसे लयमुपगताः ॥ ६ ॥