________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५
२१७
विशेषेणरतिरिव श्रीश्शोभा यस्याः तया सीतया सत्यभामया च संयोगवान् संयुक्तः आमुक्तेः मुक्तिमभिव्याप्य, मुक्ते मोक्षंगते शिवे कल्याणजनके देवे जिनेन्द्रे इत्यर्थः विहितमनसा सावधानचेतसा अशिवद्रुहा शत्रुदमनेन द्विषां शत्रूणांविजयं जयम् विशेषतः ययौ लेभे ॥४॥ उपहृतिपदप्राप्तं नागादिमं वसु चाश्रयत्,
तदुपरिंगतः कायोत्सर्गे जिगाय पुराद्विषम् । स्वयमपि मनःशुद्धया बुद्ध्या जुगोप स गाः समा,
रहसि सुदृशा क्रीडन्नानागमाश्रमबद्धधीः ॥५॥
अन्वयः–स उपहृतिपदप्राप्तम् इमम् नागात् वसु चाश्रयत् तदुपरिगतः कायोत्सर्गे पुराद्विषम् जिगाय अनागमाश्रमबदधीन रहप्ति सुदृशा क्रीडन् स्वयमपि मनःशुद्धया बुद्धया समा गाः जुगोप ॥ ५ ॥
व्याख्या-स जिनेश्वरः भगवान् उपहृतिपदप्राप्तम् उपहारीकृतम् साधुदशायामप्युपढौकितम् इमम् नागादिमम् हस्त्यश्वादिकम् नागात् नस्त्रीचकार अथवा उपहृतिपदप्राप्तम् त्यक्तपदप्राप्तम् त्यक्तम् इमम् गजादिकम् बहुतरदुःखेऽपि न अगात् नालभत बसु तेजः अलौकिक मित्यर्थः आश्रयत् अधिकृतम् तदुपरिगतः तत्पश्चात् कायोत्सर्गे तदभिधानप्रणिधानक्रियायां पुराद्विषम् पूर्वशत्रुम् कामक्रोधादिकम् जिगाय जितवान् नानागमाश्रमबद्धधीः आगमश्च आश्रमश्च इति आगमाश्रमे न आगमाश्रमे अनागमाश्रमे न अनागमाश्रमे बद्धधीर्यस्य स तथोक्तः आगमाश्रमश्रद्धालुः शास्त्राश्रमबद्धमनाः रहसि सुदृशा एकान्ते निर्जने इत्यर्थः सुदृशा सम्यकदृष्टया तात्विकदृष्टया क्रीडन् आत्मानन्दमनु. भवन् स्वयमपि मनःशुद्धया निसर्गतो निर्मलया बुद्धया विवेकेन समाःकृत्वाः गाः वाणीः जुगोप ररक्ष प्रयोजनातिरिक्तांवाचन्नोवाच वाचंयमो बभूवेत्यर्थः ॥५॥