________________
२१६
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
व्याख्या-शरसमितिभाम् इर्यासमित्यादिपञ्चसमितिधारका गुप्त्याधायी गुप्तित्रयधारणशीलः बलिकरिवरः बलिषु आत्मवलवत्सु करित्ररो महागज इवेतिलुप्तोपमा संयमिषु मातङ्गः तादृग् तथाभूतः वेलाबलात् वेलायाः सीमाया भूमेः मर्यादाया इत्यर्थः साधुजनोचि. तक्षमतायाः आश्रयादितिभावः अबलाश्रयः अबलम् असामर्थ्य आश्रयति धारयतीति तथा सत्यपि त्रिजगद्विपरिवर्तनसामर्थ्य क्षमित्तानोपयुञ्जत इतिभावः अधिगतमहायोगात् अधिगत आश्रितो यो महायोगश्चितवृत्तिनिरोधो येन तस्मात् विरतिश्रिया वैराग्यलक्ष्म्या संयोगवान् संयुक्तः विरक्त इत्यर्थ आमुक्तेः मुक्तिसाधनपर्यन्तम् अशिवद्रुहा शिवम् कल्याणम् मोक्षमितियावत् नद्रोन्धि न हिनस्तीति अशिवगृहा विहितमनसा मावधानचेतसा मुक्ते मोक्षरूपे शिवे आत्यन्तिककल्याणे विषये द्विपाम्प्रतिबन्धकानां बाह्याभ्यन्तरशत्रूणां विजयं ययौ प्राप ॥ विरोधाभासः ।।
रामकृष्णपक्षे-शरसमितिभाग् शराणाम्बाणानां समितिम् संहतिम् भजतीति तथा बाणपुजधारकः गुप्न्याधायी गुप्तिर्गोपनम् रक्षणम् ताम् आदधातीति तच्छीलः युद्धमार्गविशेषनिष्णातः बलिकरिवरः बलिषु बलशालिषु विपक्षेषु करिवर इव मत्तमातङ्ग इव अबला श्रयः अबलां स्त्रियम् सीताम् सत्यभामाम्बा आश्रयति सहचरितया संगृहातीति तथोक्तः " स्त्रीयोपिदबलेत्यमरः" वेलाबलात् वेलायाः मर्यादायाः बलात् आश्रयणात् अन्यत्र समुद्रोपकूलस्य आश्रयणात् रामस्य मर्यादापुरुषत्वात अधिगतमहायोगात अधिगतः आसादितो यो महान् अयोगः राज्यनिवृत्तियेन तस्मात् अथवा अधिमतः महायोगः कवच संबन्धो येन तस्मात् अथवा अधिगतः महायोगः प्रभूतराजसम्मेलो येन तसात् विरतिश्रिया वनवासितया वैराग्यलक्ष्म्याः अथवा