________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-५
२१५
आशयोऽभिप्रायो यस्य स वराशयः स चासौ नाग्रही चेति आग्रही वृथाविवादनिरतो न भवतीति वराशयनाग्रही अथवा आसमन्तात् गृह्णातीति आग्रही शयनस्य स्वापस्य आग्रही शयनाग्रही स न भवतीति अशयनाग्रही वरश्चासौ अशयनाग्रही घराशयनाग्रही देवः दीप्यमानः अवनीपीठे पृथ्वीतले व्यहरत व्यचरत् ।।
रामपक्षे-सीता जनकनन्दिनी अत्युष्णातपादिपराभवम् अनुपदम् अगात् अलभत परामव इति विभक्तिविपरिणामेनान्वयः सहान्वयिलक्ष्मणः सहान्वयी सहचरो लक्ष्मणो यस्य सः अवनीपीठे व्यहरत वने व्यचरत् अन्यद्विशेषणं पूर्ववत् विशिखशिरसेत्यस्य विशिखः बाणः शिरः प्रधानं यस्य तेन उपलक्षितः "शिरः मस्तके प्रधाने सेनाग्रे चेती शब्दस्तोममहानिधिः" ॥
कृष्णपक्षे-सीतात्युष्णानपादिपराभवः सीतायाः मदिरायाः य अत्युष्णातपादिः अतितीक्ष्णत्वादिः तेन पराभवः अनुपदम् प्रतिस्थानम् अगात् बलरामस्य तत् नियत्वात् द्रुपदतनुजावाधा द्रुपदतनुजायाः द्रौपद्याः बाधा दुःशासनकर्टकवस्वाकर्पणादिः प्रभोः कृष्णस्य विषमाश्रयम् वैरुच्यम् व्याधात् अकरोत् सहान्वयिलक्ष्मणः सहान्वयी सह सम्बन्धः लक्ष्म शंखचक्रादिर्यस्य स अन्यत् पूर्ववदयसेयम् ॥३।। सरसमितिभाग गुप्त्याधायी द्विषां विजयं ययौ,
बलिकरिवरस्ताहग्वेलाबलादबलाश्रयः । अधिगतमहायोगात् संयोगवान विरतिस्त्रिया, (श्रिया)
विहितमनसा मुक्तेर्मुक्ते शिवे ह्यशिवद्रुहा ॥४॥
अन्धयः-शरसमितिभाग गुप्त्याधापी बलि करिवरः तादृग् बेकाबलात् अबलाश्रयः अधिगतमहायोगात् विरतिश्रिया संयोगवान् मुक्ते शिवे भशिवगुहा. विहितमनसा मुक्तेर्दिषां विजयं ययौ ॥ ४ ॥