SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१४ महोपाध्यायश्रीवविजयगणिविरचिते सप्तसन्धानमहाकाग्ये धनोत्पातैः अनेकविधसमृद्धिसम्पादनः पराक्रमसंगतैः बलवद्भिः सहेतिशेषः देहे शरीरे प्रतिग्रहनिग्रहम् जरासन्धादिकृतोपद्रवादिकं दृढमनाः स्थिरचित्तः कालम्प्रतीक्षन सेहे सोढवान् ।। २ ॥ अनुपदमगात् सीतात्युष्णातपादिपराभवो, द्रुपदतनुजाबाधा-व्याधात् प्रभोर्विषमाश्रयम् । व्यहरदवनीपीठे देवः सहान्वयिलक्ष्मणो, विशिखशिरसा धर्माधानाद्वराशयनाग्रही ॥३॥ अन्वयः-सीतात्युष्णातपादि पराभवः प्रभोः अनुपदमगात् द्रुपदतनुजा. बाधा विषमाश्रयं व्याधात् विशिखशिरसा धर्माधानात् वराशयनाग्रही सहान्त्रयि लक्ष्मणः देवः अवनीपीटे व्यवहरत् ॥ ३ ॥ व्याख्या–सीतात्युष्णातपादिपराभवः शीतश्च अत्युष्णश्च आतपश्च इति सीतात्युष्णातपानि शसयोः साम्यात् तानि आदिर्यसिन् स चासौ पराभवश्चेतितथोक्तः हिमग्रीष्मरौद्रादिपराभवः प्रभोः सर्वशक्तिमतो जिनेन्द्रस्य प्रतिपदम् अनुपदम् पदेपदे इत्यर्थः अगात् अभूत् द्रुपदतनुजाबाधा-द्रूणां पदानां तनूनां द्वन्द्वः तेभ्यो जायते इति जा तस्याः द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकतः संबन्धः तथा च द्रुजा पदजा तनुजाया बाधा गमनबाधा विहारप्रतिबन्धिका सा प्रभोः जिनेन्द्रस्य विषमाश्रयं वैरुच्य अव्याधात् न अकृत अथवा तनुजा तनुजः कामः सैव तनुजा कामजनिता बाधा अव्याधात् न अकार्षीत्, किश्च विशिखशिरसा शिखारहितशिरसा उपलक्षितः सहान्वयि. लक्ष्मणः सहान्वयी सहचरो लक्ष्मणः लक्ष्मीवान नृपो यस्य स अथवा लक्ष्म चिहं साधुवेषो यस्य स लक्ष्मणः सहान्वयी यस्येत्यर्थः धर्माधानात् धर्मस्य सुकृतेः आधानात् स्थापनात आकलनाद्वा रात्रिन्दिवं धर्मचिन्तनात् हेतोः वराशय नाग्रही वरः श्रेष्ठः अनन्यसाधारणः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy