SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २१३ कचित् वचन तपोधनिनाम् तपस्विजनानाम् पुरः अग्रे सुरशासनैः महे. न्द्रादिदेवनियोगैर्यक्षादीनां विद्याधरादीनां द्रुवनरचनैः द्रूणां वृक्षाणाम् बनानाम्बिपिनानां वा रचनैः विधानः पराक्रमसंगमैः पराक्रमितेः बल वद्भिः कृतवसुधनोत्पातः कुतोविहितः वसुधनानाम् रत्नबहुलानाम् उत्पातः वृष्टिः यैस्तैः अथवा वसुधनानां वह्निसमूहानामुत्पातः उपद्रवः तैः वातैः पवनैः यत् प्रतिग्रहं प्रत्युपकारं साहाय्यमित्यर्थः अथवा प्रतिग्रहमुपद्रवम् निग्रहम् भर्त्सनादिकम् तत् दृढमनाः अविचलितबुद्धिः देहे निजकाये स जिनेश्वरः हीति निश्चये सेहे सोढवान् कथञ्चिदपि खनिश्चयान्नविचचालेति भावः ।। ___अथ च पराक्रमः संगतैः पराक्रमस्य निजदृढसंयमस्य संगमैः संबन्धैः करणभूतरित्यर्थः हीति निश्चये दृढमनाः सहनशीलप्रकृतिः स सेहे ततो विकृति न ययौ ॥ रामपक्षे-वचन कुत्रापि गोपालीनां राजश्रेणीनां गोपश्रेणीनां तपोधनिनां मुनीनाम् वचनैः कथनैः शिक्षाप्रयोजकैः सुरशासन: गोकर्णाभिधयक्षवचनैः यक्षादीनाम् इभकर्णाभिधानादीनां द्रुधनरचनैः वृक्षाटव्यादिविधानः पुरः नगरस्य च रचनैरित्यर्थः कृतवसुधनोत्पातः कृतो विहितः वसुधनानां द्रव्यबहुलानां उत्पातः उत्पनियस्तैः वा इति पादपूरणे तैर्यक्षः पराक्रमसंगतैबलवद्भिःसहेति शेषः देहे शरीरे प्रतिग्रनिग्रहम् प्रतिग्रहस्य अदृष्टार्थदत्तद्रव्यस्य निग्रहं निवर्तनं सेहे प्रतिपालयामास तदानीं राज्यच्युतत्वात् प्रतिग्रहस्यापाततः स्वीकारः सम्भवेत्तचक्षत्रियाणाङ्गीमितियक्षकृतसुवर्णादिवृष्टया तन्निग्रहो जात इति भावः ॥२॥ कृष्णपक्षे-कचन गोपालीनां गोपराजीनां तपोधनिनां चारणर्षीणां वचनैः कथनैः पुरः प्रथमम् सुराणां रामकृष्णाभिरक्षकदेवानां शासननिर्देशैयक्षादीनां द्रुवनरचनैः पर्वतवनादिविधानैः कृतवसु
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy