SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसम्भानमहाकाव्ये रामपक्षे-रामः परिणतहृदा परिपक्कबुद्ध्या वामधीः कुटिलबुद्धिर्न जिनपवृषभः जयति संसारमिति जिनः मुनिः तं पातीति जिनपः स श्रेष्ठः आराध्यतया मुख्यो यस स अथवा जयति शत्रुमिति जिनः नृपः तम्पाति रक्षति इति जिनपस्तेषु वृषभः श्रेष्ठः हरिणाश्रिताम् सुग्रीवाधिष्ठिताम् दिशम् कामम् जगाम निर्ययो अन्यत् पूर्ववद्योज्यम् ॥ कृष्णपक्षे-कुबलयोद्धासी कुवलये भूवलये उद्भासी शोभमानः अथवा कुवलयेन हस्तस्थितकमललाञ्छनेन उद्भासते इति तथा अथवा कुवलयमिवउद्भासी कुवलयोद्भासी अथवा कुवलये कुवलयनामा कंसस्य गजरूपोऽसुरः तत्र तद्धिंसनेन उद्भासते इति कुवलयोद्धासी राशीभवद्गुणसेवधिः सर्वगुणनिधिः परिणतहृदारामः आसमन्तात सर्वभावेन रामे बलरामे परिणतम् प्रहम् हृद् हृदयं यस्य स वामधीविप्रतिपन्नवुद्धिन अन्यद्विशेषणम्पूर्ववद्योज्यम् । सर्गोऽयंहरिणीच्छन्दो बद्धोभाति न संशयः। तल्लक्षणन्तु रसयुगहयैन्सौम्रोस्लो गो यदाहरिणी तदा ॥ १ ॥ क्वचन वचनैर्गोपालीनां तपोनिनां क्वचिद, द्रुवनरचनैर्यक्षादीनां पुरः सुरशासनैः । कृतवसुधनोत्पातैर्वा-तैः पराक्रमसंगमैः, स हि दृढमनाः सेहे देहे प्रतिग्रहनिग्रहम् ॥२॥ अन्वयः-. क्व चन गोपालीनाम् वचनैः तपोधनिनाम् यक्षादीनाम् पुरः सुरशासनः दयनरचने: पराक्रमसंगमः कृत वसुधनोत्पाततिः स हि दृढमनाः देहे प्रतिग्रह निग्रहम् सेहे ॥ २ ॥ व्याख्या---वचन कुत्रापि गोपालौनां गोपश्रेणीनाम् गोपाङ्गनानां वा वचनैः यदृच्छाप्रयोजित म्यभाषाभिः अथवा गांपृथ्वीं पान्तीति गोपाः नृपास्तेषां आलीनां श्रेणीनां वचनैः स्तुतिप्रयोजकैः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy