SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २१ पञ्चमः सर्गः अथ कुवलयोद्भासी राशीभवद्गुणसेवधिः, परिणतहदारामः कामं जगाम न वामधीः । जिनपवृषभः स्वैरं वैरं त्यजन्नपरे परे, सितरुचिरिवोदीचीमञ्चन् दिशं हरिणाश्रिताम्॥१॥ अन्वयः-अथ कुवलयोद्भासी राशीभवद्गुणसेवधिः परिणतहदारामः न वामधीः अपरे परे वैरं त्यजन् जिनपवृषभः उदीचीमचन् सितरुचिरिव स्वैरं कामम् हरिणाश्रिताम दिशम् जगाम ॥ १ ॥ व्याख्या-अथ अथानन्तरम् दीक्षाग्रहणानन्तरमित्यर्थः कुवल. योद्भासी कुवलये भूमण्डले भासतें दीव्यतीत्येवं शीला पृथ्वीमण्डलमण्डनः राशीभवद्गुणसेवधिः राशीभवन्तः सर्वतो मिलन्तः ये गुणाः दयादाक्षिण्यादयस्तेषां सेवधिः निधिः खानिरितियावत् परिणतहृदारामः परिणतम् कषायादिरहितन्निर्मलमित्यर्थः यत् हृद् हृदयम् तत्र आरमते विहरतीति तथा अथवा परिणतः पुष्टः हृदारामो हृदुपवनं यस्य स तथा स्वात्मसंतुष्टः दयादिगुणयुक्तः इतियावत् न वामधी: नारुन्तुदबुद्धिः ऋजुप्रकृतिः अपरे स्वीये परे अन्ये च वैरम्बिद्वेष त्यजन् परिहरन् स्वीयपारक्यबुद्धिरहितः उदीचीमुत्तरान्दिशम् अञ्चन् गच्छन् सितरुचिरिव शीतांशुरिव चन्द्र इवेत्यर्थः जिनपवृषभः जिनश्रेष्ठा स्वैरं यथेष्टम् कामं यथास्यात्तथा हरिणाश्रितान्दिशम् ऐन्द्रीम् दिशम् प्राचीम् जगाम विचचार अथवा असितरुचिः तीक्ष्णकरः सूर्य इव उदीचिम् दिशम् उत्तरायनम् अञ्चन् गच्छन् स इवेति । सित. रुचिरिव असितरुचिरिवेतिवोपमालंकारेण निरतिशयमृदुत्त्रं धर्ममाङ्गलिकप्रयोजकत्वं च वस्तु व्यज्यते इत्यलंकारेण वस्तुध्वनिः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy