SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१. महोपाध्याय श्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाव्ये देवानां संगः संगतिर्यत्र तस्मिन् मार्ग स्याद्वादमार्ग निवृत्तः निश्चयेन प्रतिपन्नः ॥४१॥ अर्थाः सप्त समर्थिताः कणभुजामाभासनेशासने, __ सप्त श्रीजिनसन्मते ह्यभिमते प्रामाणिकानामपि। राज्याङ्गानि तथैव देवरसतः स्युभूर्भुजः सिद्धये, काव्येऽस्मिन्नत एव सप्त कथिता अर्थाः समर्थाःश्रियै॥४२॥ इति श्रीसप्तसंधाने महाकाव्ये महोपाध्याय-श्रीमेघविजय. गणिविरचिते पूज्यराज्यवर्णनो नाम-चतुर्थः सर्गः ॥४॥ भन्वयः कणभुजामाभासने शासने सप्त अर्थाः समर्थिताः प्रामा. णिकानामपि अभिमते श्रीजिनसन्मते सप्त तथैव देवरसतः भूर्भुजः सिद्धये राज्याशानि स्युः अत एव अस्मिन् काव्ये श्रियै समर्था सप्त अर्थाः कथिताः ॥४२॥ व्याख्या-कणभुजां कणादानानयायिकसमानतंत्राणाम्वैशे. पिकानाम् आभासने प्रकाशमाने शासने तन्त्रे सप्त अर्थाः द्रव्यगुणा दयः समर्थिताः प्रमाणेन सिद्धान्तिताः सन्तीति शेषः तथा प्रामाणिकानां प्रमाणतो वस्तुपरिच्छेदकानामभिमते इष्टे श्रीजिनसन्मते श्री जिनानां सन्मते शुद्धमते जैनदर्शने सप्त जीवादयोऽर्थाः पदार्थाः समर्थिताः प्ररूपिताः तथैव भूर्भुजः नृपस्य सिद्धये विजयाय दैवरसतः सप्तसंख्यातः राज्यांगानि स्वाम्यमात्यसुहृत्कोशादीनि समर्थितानि सनिवेशितानि अत एव शास्त्र व्यवहारे च निर्णीतत्वादेव अस्मिन् काव्ये सप्तसंधानाभिधाने श्रियै मङ्गलाय समर्थाः अभिधावृत्तिबोध्याः सप्त अर्थाः सप्तसंख्यका। अभिधेयाः समर्थिता वाच्यत्वेन स्थापिताः ४२॥ इति शास्त्रविशारद--कविरत्न भट्टारकाचार्य-श्रीविजयामृतसूरीश्वर-प्रणीतायां सप्तसंधान-महाकाव्य-सरणी-टीकायां चतुर्थः सर्गः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy