________________
आचार्यश्रीविजयामृतसूरिप्रणीसा सरणी टीका. सर्ग-४
२०९
व्याख्या-अचरमः चरमोऽन्तिमो न भवतीति अचरमः आ. दीश्वरनाथः परमः श्रेष्ठः तीर्थेश्वरः तीर्थकृत् आलोचनात्-ज्ञानतः पर्यालोचनात् विचारात् विकचचारुमुखारविन्दः विकचं विकसितं सुप्रसन्नमित्यर्थः चारु मनोज्ञं मुखारविन्दम् आननपंकजम् यस्य स तथोक्तः तुर्यावबोधनधनी तुर्याबोधनम् तुर्यज्ञानमेव धनम् संपद्यस्य स मनीषिपूज्यः विद्वजनाराधनीयः स सदशमे सादयति आमादयति शमः शान्तियत्र तस्मिन् सुपर्वसङ्गे देवसङ्गे सिते निर्मले मार्ग साधुमागेऽध्वनि निवृत्तः जातः यतित्वमाससादेत्यर्थः ॥
श्रीमहावीरपक्षे-असिते कृष्णे सदशमे दशमेन सहितः सदशमः पूर्वोपस्थितत्वादेकादशो जातस्तत्र मार्ग मार्गशीर्षे मार्गीकादश्यां चरमोऽन्तिमस्तीर्थेश्वरः वर्धमानप्रभुः निवृत्तः सांसारिकवि. षयवासनात इति शेषः ॥
अन्यतीर्थकृताम्पक्षेऽप्येवमेवावसेयम् ।।
रामकृष्णपक्षे-तीर्थेश्वरः “सत्यं तीर्थ क्षमातीर्थ तीर्थमिन्द्रिय. निग्रहः सर्वभूतदयातीर्थ सर्वत्रार्जवमेवचे"ति निरुक्ततीर्थानामीश्वरः अधिष्ठाता अन्यत्र तीर्थस्य उपकूपजलाशयस्य द्वारकाया ईश्वरः प्रभुः चरमो जघन्यो न भवतीति अचरम उत्कृष्टः निवृत्तः राज्यादिति शेषः अन्यत्र नितरां त्रियते इति निवृत्तः सामन्तराजपरिवृत्तः आलोचनात् प्रेमतो दर्शनात् विकच चारुमुखारविन्दः प्रसन्नमनोहराननः आलोचनादित्यनेन प्रेमावलोकनत इत्यर्थः शत्रूणां तु अकालकालकरालवदनएवासीदिति ध्वनिः तुर्यावबोधनधनी तुर्यम् तूरम् तेन यदवबोधनम्प्रा. तर्जागरणन्तेन धनी भाग्यवान् “वाद्यं वादिनमातोयं तुर्य तूरं स्म रध्वज इति हैमः” मनीषिपूज्यः मनीषिभिर्विद्भिः पूज्य आदरणीयः स रामः कृष्णश्च असिते निर्मले सदशमे प्राप्तशमे सुपर्वसङ्गे सुपर्वणां