________________
२०८ महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाब्बे देवर्षभे-जनि-पवित्रदिने बतश्री
शान्तेः पुनर्बहुलशुक्लपरासत्त्वे । अनोदिताम्बुधिशिवाङ्गभवे रसाढ्ये,
सम्यक्तिथौ हरिवरस्य तथैव पोर्चे ॥ ४०॥ अन्धयः-देवर्षभे जनिपचित्रदिने व्रतश्रीः शान्तेः पुनः बहुल शुक्लपरघुसत्वे उदिताम्बुधिशिबाङ्गभचे रसाये तथैव पार्श्वे हरिवरस्य सभ्यक्तिधौ ॥४०॥
व्याख्या--देवर्षभे देवश्चासौ ऋषभश्चेतिदेवर्षभस्तसिन् ऋषभस्वामिनि जनि पवित्रदिने जनेः जन्मतः पवित्रम् पूतम् तस्मिन् दिने चैत्रकृष्णनवम्यां व्रतश्रीः व्रतलक्ष्मीः अजनि अभूव शान्तः शान्तिनाथस्य भगवतः बहुलशुक्लपरासत्वे बहुम् लाति गृह्णातीति बहुलो ज्येष्ठः सर्वतः श्रेष्ठत्वात् तस्य शुक्लपराः शुक्लपक्षपरदिनम् तस्य सत्वे विद्यमाने ज्येष्ठकृष्णत्रयोदशीदिने इत्यर्थः उदिताम्बुधिशिवाङ्गभवे उदितः प्राप्तोदयः य अम्बुधिः समुद्रः समुद्र विजयः स च शिवा च तत्पत्नी ते उदिताम्बुधिशिवे तयोः अङ्गभवस्तन यस्तस्मिन् नेमिनाथे रसाढ़ये षष्ठीतिथौ तथैव पार्श्व पार्श्वनाथे हरिवरस्य विष्णोः सम्यतिथौ एकादश्याम् हरिवरस्य महावीरस्वामिनः सिंहाकितत्वेन तथा निर्देशः तथैव एकादश्यामित्यर्थः व्रतश्रीरजनीति पूर्वण सम्बन्धः ॥ ४ ॥ मार्गेऽसिते सदशमे हि सुपर्वसङ्गे,
तीर्थेश्वरोऽप्यचरमः परमो निवृत्तः। आलोचनाद्विकचचारुमुखारविन्द
स्तुर्यावबोधनधनी स मनीषिपूज्यः ॥४१॥ अन्वयः-परमः-अचरमस्तीर्थेश्वरः मालोचनाद्विकचचारुमुखारविन्दः तुर्यावयोधन धनी मनीषिपूज्यः स मार्गेऽसिते सदशमे सुपर्वसंगे निवृत्तः ॥ ४ ॥