________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४
M
२०७
ऋषभदेवः अवतम् तुर्यगुणस्थानकम् अधत्त अथ च जातेः जन्मनः परे उत्कृष्टे अहनि दिवसे चैत्र कृष्णनवभ्यां महाव्रतम् चारित्र्यलक्षणम् अधत्त धृतः स कथंभूतः शान्तिसमुद्रभूः शान्तेरुपशमस्य यः समुद्रः आकरस्तस्य भूः उत्पत्तिस्थानम् परमः श्रेष्ठः अचरमः चरमो न भवतीति तथा रामे मनोहरे मार्गे पथि ककुभां दिशामनुभावनी ये प्रकाशकारके श्रीपार्श्वे एव श्रियाः मोक्षलक्ष्म्याः पार्श्वे सन्निधौ आसनमुक्तिलक्ष्म्या एव क्रमेण रीतिमनुसृ-येत्यर्थः ॥
श्री शान्तिनाथपक्षे - श्री शान्तिः शान्तिनाथः जातेर्जन्मनः परे द्वितीये अहनि दिवसे ज्येष्ठकृष्णत्रयोदश्यां महाव्रतम् संयमं अधत्त अन्य द्विशेषणम् पूर्ववदवसेयम् ॥
श्रीनेमिनाथपक्षे -- शान्तिसमुद्रभूः शान्तेः समुद्र इव समुद्रः समुद्रविजयः तस्मात् भूः उत्पत्तिर्यस्य स नेमिनाथः जातेः जन्मनः परे द्वितीयेऽहनि दिवसे श्रावणशुषष्ठयां महाव्रतम् अधत्त ||
--
श्री पर्श्वनाथपक्षे श्रीपार्श्वः पार्श्वनाथः जातेर्जन्मदिनात् परे द्वितीयेऽहनि पौषकृष्णैकादश्यां महाव्रतमधत्त ||
श्री महावीरपक्षे- चरमः अन्तिमः श्रीवर्धमानस्वामी जाते: परे भन्ने दिवसे मार्गकृष्णैकादश्यां महाव्रतम् अधत्त अग्रहीत् ॥
रामकृष्णपक्षे -- स मुख्यः प्रथमः श्रेष्ठः शान्तितमुद्रभूः शान्तेरुपशमस्य समुद्रः तस्य भूरुत्पत्तिस्थानम् अथवा शान्तिसमुद्रः दशरथो वसुदेवश्च तस्मात् भवतीति शान्तिसमुद्रभूः परमः उत्कृष्टः चरमो न भवतीति अचरमः सर्वतोऽधिकः परे उत्कृष्टे रामे मोक्षसाधनभूते क्रमेण क्रमतः ककुभान्दिशामनुभावनीये सर्वप्रकाशकारके अहनि न कदाचित जहाति संसारमिति अहनि निश्चले मार्गे जिनशासने विषये जिनेषु अर्हत्सु महाव्रतम् महानियमम् अधत्त अग्रहीत् ॥ ३९ ॥