________________
महोपाध्याय श्री मेघ विजयमणिविरचिते सप्तसन्धानमहाकाव्ये
स्त्वदीययोरिति " देवकी विवाहोत्सवे विज्ञापितः कृतनिवेदनः कंसः तां कचे गृहीत्वा हन्तुमुत्रतः मा एनां हंसि अस्यास्तनयं त्वां समर्पयिष्यामीति चिकुरार्थरागम् कचग्रहणप्रपञ्चम् अथवा चक्यन्ते प्रतिहन्यन्ते इति चिकुरा " औणाक उरः प्रत्ययः " प्रतिहननानि तदर्थ यो रागोऽभिनिवेशः तमुत्पाट्र्य निरस्य स कंसः वनानुकूल्ये आलयस्य आनुकूल्ये सौलभ्ये रेजे शुशुभे ॥
रामपक्षे - राजराजां विषये सूर्य्यवंशे रजन शोभमानः लोका न्तकान्तवसतिप्रतिपन्नदेवैः लोकान्ते वने या कान्तवसतिः मनोहरनि वासस्तत्प्रतिपन्ना तत्र गता ये देवा दीप्यमानास्तैः विज्ञापितः निवेदितः सन् चिकुरार्थरागम् संग्रामरागम् स्वसमयम् खनिश्चयम् उत्पादय दूरीकृत्य सन्धिम्विधायेत्यर्थः तुष्टसुमनाः प्रसन्नचित्तः स रामः नानुकूल्ये रेजे रमतेस्म ||
कदाचिद्वने पर्यटन् राम्रो निर्जनकमपिप्रदेशम्विलोक्य यावच्चि न्तयति तावत् कोऽपि श्रावकः सिंहोदरवज्रकर्णयोर्वृत्तान्तं व्यजिज्ञपत् तयोश्वसन्धिविधाय तत्र वने रेजे इति रामायणे पञ्चमसर्गे आदितः ७६ सर्ग यावद्वर्णनमनुसन्धेयम् ॥ ३८ ॥ जातेर्महाव्रतमधत्त जिनेषु मुख्यस्तस्मात्परेऽहनि स-शान्ति - समुद्रभूर्वा ।
।
श्रीपार्श्व एव परमोऽचरमस्तु मार्गे,
२०६
रामेऽक्रमेण ककुभामनुभावनीये ॥ ३९ ॥
भन्वयः- - जिनेषु मुख्यः स शान्तिः समुद्रभूः अचरमः परमः जातेर्महाव्रतम् अवत्त तस्मात् परेऽहनि श्रीपार्श्व एवं ककुभामनुभावनीये रामे क्रमेण मार्गे महाव्रतम् अधत्त ॥ ३९ ॥
व्याख्या - जिनेषु अवधिज्ञानवत्सु मुख्यः प्रथमः श्रेष्ठः आदीश्वरः