________________
भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-४
द्वारकापुरः पावनता पवित्रता वितेने विस्तारयामास अन्यद्विशेषणं रामपक्षवद्योज्यम् श्लेषः || ३८ ॥
रेजे रजंश्च विषये ननु राजराजां, लोकान्तकान्तवसतिप्रतिपन्नदेवैः ।
विज्ञापितः स्वसमयं चिकुरार्थराग
२०५
मुत्पाटय तुष्टसुमनाः सवनानुकूल्ये ||३८||
अन्वयः --- ननु राजराजां विषये रजन् लोकान्तकान्तवसतिप्रतिपन्न देवैः स्वसमर्थ विज्ञापितः चिकुरायेरागमुत्पाट्य तुष्टसुमनाः स वनानुकूल्ये रेजे ॥ ३८ ॥ व्याख्या -- ननु इति कोमलाला पे राजराजां विषये राजसु नृपसमूहेषु राजते शोभते इति राजराट् तेषां विषये मध्ये तत्संघे रजन् विलसन् स जिनेन्द्रः लोकान्तकान्तवसतिप्रतिपन्नदेवैः ब्रह्मसदननिवासिभिर्देवैः स्वसमयं दीक्षाग्रहणकालम् विज्ञापितः निवेदितः स्मारित इति यावत् चिकुरार्थरागम् चिकुरे कचे अर्थे सम्पत्तौ यो रागः ममत्वबुद्धिः प्रीतिरिति यावत् तमुत्पाट्र्य उन्मूल्य निरस्य तुष्टसुमना तुष्टम् हृष्टम् सुष्ठु मनो हृदयं यस्य स वनानुकूल्ये वने न निर्जनतथा आनुकूल्ये तपो योग्ये रेजे रेमे विललास || अथवा स वनस्य आभ्यन्तरमलक्षालन रूपध्येयस्त्रानस्य आनुकूल्ये सौलभ्ये रेजे || पञ्चात्पक्षसाधारणमेतदिति ||
कृष्णपक्षे - राजसु राजन्ते इति राजराजस्तेषां विषये समुदाये रजन् शोभमानः लोकान्तकान्तवसतिप्रतिपन्नदेवैः लोकान्तं लोकेषु अन्तः मनोहरः " अन्तो मनोहरेऽभ्यासे इति शब्दस्तोममहानिधिः" कान्तः कमनीयः तत्र वसतिर्निर्वासः प्रतिपन्नः स्वीकृतः यो देवः दीप्तिमान् तैः अतिमुक्तनाममुनिभिः स्वसमयम् स्वस्य कंसस्य समयम् जीवनदिनम् " यन्निमित्तोऽयमुत्सवस्तद्गर्भः सप्तमो हन्ता पतिपित्रो