SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाचे सम्वत्सरे भवम् साम्बत्सरम् तस्य अवसरः समयः तत्र यद्दानम् तत् करोतीति साम्वत्सरावसरदानकृता मलयानुलिप्तालंकारितेन मलयानुलिप्तेन मलयचन्दनानुलेपेन तात्स्थ्यात्ताच्छब्दमित्यनुसृत्य अलं. कारितः कृतालंकारस्तेन राज्ञा राजमानेन योगाभियोगकलया योगस्य ये केचन जिघृक्षवस्ते समायान्विति रूपस्य योऽभियोगः ख्यापन तस्य कलया विधानेन वनपावनता वनस्यारण्यस्य पावनता पूतता महत्वमित्यर्थः वितेने विस्तारयामास ।। अन्येषामपि चतुर्णामहेतां समानमेतत् ।। श्रीरामपक्षे—निष्कोपयामिकविधिम् निष्क्रोधद्वारपालक्रियाम् दधता धारयता राज्ञा भरतेन अत्र अयोध्यायाम् साम्बत्सरावसरदा. नकृता सम्वत्सरे भवः साम्वत्सरः चतुर्दशवर्षव्यापकः योऽवसरः समयस्तसिन् यत् दानम् पालनम् “दानम्मदजले च्छेदे पालने चेति शब्दस्तोममहानिधिः ” तत् करोतीति तेन यथार्हम् यथायोग्यम् क्रममनुसृत्येत्यर्थः योगाभियोगकलया योगस्य कवचादिधारणस्य अथ वा कमकौशलस्य योऽभियोगः उद्योगः तस्य कलया तदाश्रयेण अथवा योगः परराजकृतघर्षणस्तस्य अभियोगः विज्ञानम् तम् कलयति जानातीति कला तया तथोक्तया मलयानुलिप्तालंकारितेन मलयचन्दनानुलेपनकृतालंकारेण वनपावनता वनति हिनस्ति जनानितिवनः तम् पायतिशोषयतीति "पैल्युः" वनपावनस्तस्यभावस्तत्ता वितेने अथ च वनस्य नगरस्य पावनता पवित्रता वितेने विस्तारयामास ।। कृष्णपक्षे--साम्बत्सरावसरदानकृता श्रीनेमिनाथस्य यत्साम्बसरावसरदानम् तत् कारयति सम्पादयतीति अन्तर्भावितण्यर्थः तेन अथवा सम्बसन्ति ऋतवो यत्र तत् सम्बत्सरम् उपवनम् रैवतकवनम् तस्स अवसर अवकाशः तत्र दान कृता रक्षणकृता वृन्दान नावकाशपालनकृता वा वनस्थ समुद्रजलस्य यावनता पवित्रता अथवा स्वालयस्य
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy