________________
२०१ महोपाध्याय श्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाव्ये कर्मनिवृत्तिभावः परिसमाप्तियत्र तस्मिन् अथवा विश्वसेनात् कृतः कर्मणः शरीरान्तरारम्भककर्मनिवृनिभावः समाप्तियत्र तस्मिन् अन्यत् पूर्वव्याख्यानवत् ।।
श्रीपार्श्वनाथपक्षे--विश्वस्मिन् सेना यस्य स विश्वसेनस्तेन कृतकर्मनिवृत्तिभावे आश्वसेनः एतदभिधानकः पाश्वनाथपिता वैदेहिवृत्तिपरिभावनया जुगोप अन्यत्पूर्ववत् ।।
श्रीनेमिनाथवर्द्धमानरामकृष्णपक्षे पूर्वपक्षवद्योज्यम् ॥ ३५ ।। देवस्तथा नृपतिभिः सह पूर्वदेवैः,
प्राप्ते प्रमोदनिवहे महता महेन । धर्तु क्षणाद् विषयतो विमुखः स दीक्षां,
स्वामी खमभुतरसाद वनमाससाद ॥३६॥ भन्वयः--महता महेन प्राप्ते प्रमोदनिवहे पूर्वदेवै पतिभिः सह विषयतः विमुखः स देवः दीक्षाम् धर्तुम् स्वामी स्वम् अद्भुतरसाद् वनम् आससाद:३६॥ ___व्याख्या-पूर्वदेवैः पूर्वोक्तैरिन्द्रादिदेवैः अथवा पूर्वाश्वते देवा. श्व तैः पूर्वदेवैः प्रधानदेवैः अथवा पूर्वम् शरीरधारणात् प्रथमम् देवैः देवभूतैः इदानीं प्रभुसेवार्थनृपतिताङ्गतैः अथ च सामन्तराजभिः सह सार्धम् महता लोकातिशयेन महेन उत्सवेन प्रमोदनिवहे आनन्दसंभारे प्राप्ते अधिगते सतीत्यर्थः स प्रभुः जिनेश्वरः देवः विषयतः सांसारिकविषयकामिनीकाश्चनादितः विमुखः पराङ्मुखः स्वामी सर्वशक्तिमान् स्वम् स्त्रयमेव क्षणात् तत्क्षणमेव दीक्षाम् प्रवज्यां धतुम् ग्रहीतुम् अद्भुतरसात् विलक्षणशान्तिरसात् वनम् सिद्धार्थनामोद्यानम् आससाद प्राप गतवानित्यर्थः ।।
श्रीपार्श्वनाथपक्षे-आश्रमपदनामानम्वनम् अन्यत्पूर्ववत् ।