________________
भाचार्यश्रीविजयामृतमूरिप्रणीता सरणी टीका. सर्ग-४ २०१ प्राकारो यत्र सा अथ वा बने जले वासः वृनिराजीविका च यस्य स, न्यधायि अस्थापि अत्र श्लोके श्लषालंकारः ॥ ३४ ॥ श्रीविश्वसेनकृतकर्मनिवृत्तिभावे,
लोकोऽनुगामुकमना नयविक्रमेण ॥ शान्तिप्रधानवचसैव तमाश्वसेनो,
वैदेहिवृत्तिपरिभावनया जुगोप ॥ ३५॥ अन्धयः-- श्रीविश्वसेनकृतकर्मनिवृत्तिभावे नयविक्रमेण अनुगामुकमना लोक तम् आश्वसेनः शान्तिप्रधानवचव वै देहिवृत्तिपरिभावनया जुगोप ॥ ३५ ॥
व्याख्या-श्रीविश्वसेनकृतकर्मनिवृत्तिभावे विश्वस्मिन् चतुर्दिविभागे सेना यस्य अथवा विश्वस्मिन सेनया यातीति सेनयतीति सेन: सर्वत्र सेनासहितगमनः नामिः आदिनाथयिता तेन कृतः सम्पादितः कर्मणो निवृत्तिभावः पित्रादिनियतकर्तव्यलौकिकसंस्कारादिकर्मसमाप्तियस्मिन् तसिन् अथ वा श्रीविश्वसेनात् निजसाम्प्रतिकपितुः सकाशात् कृतः जातः कर्मणः शरीरारम्भकदुरदशनिवृत्तिभावः यत्र तस्मिन् नयविक्रमेण नयेन नीत्या विक्रमेण पराक्रमेण अनुगामुकमनाः अनुसरणचित्तो जनः लोकः आसीदिति शेषः आश्वसेनः अश्वप्रधाना सेना यस्य स आश्वसेनः शान्तिप्रधानव सैव शान्तिप्रयोजकवचनेन वैदेहिवृत्तिपरिभावनया वै इतिपादपणेऽनुनयेऽव्ययम् , देही आत्मा तस्य वृत्तिर्व्यवहारः आत्मत्रव्यवहारस्तस्याः भावनया विचारेण तम् जनम् अथवा वैदेह्याः जनकनन्दिन्या या वृत्तिवेतनम् सुखदुःखसहि. ष्णुत्वम् धर्मपरतन्त्रत्वम् तस्य परिभावनया विचारेण जुगोप ररक्ष ।
श्रीशान्तिनाथपक्षे—विश्वसेनेन तदभिधानेन स्वजनकेन कृतः सम्पादितः कर्मनिवृत्तिभावः जन्मत आरभ्य विवाहादिसंस्कारपर्यन्त