________________
२००
महोपाध्यायश्रीमेघविजयगणिविरचिते मप्तसन्धानमहाकाव्ये
मुनित्वमाश्रयितुम् प्रवजितुमिति भावः मुख्य सुते सर्वतो ज्येष्ठे दयादा. क्षिण्यादितः श्रेष्ठे रामे नियमतः स्ववंशपरम्पराम्नायतः पदवी राजपदवी निधेया स्थापनीया इति कृतनिश्चयेऽपि कान्तावरिष्ठवचसा कान्तायाः कामिन्याः कैकेय्याः वरिष्ठवचसा वरिष्ठम् अत्याज्यम् पूर्वदत्तवस्त या अवश्यग्राह्यम् यद्वचः वचनम् तेन अथवा कान्तायाः स्वार्थान्धायाः कैकेया: अवरिष्ठम उभयलोकविरुद्वम् अथवैतल्लोक विरुद्धम् यद्वचस्तेन भग्ने कैकेयीतनये स्वमध्यमतनये न्यधायि राजपदवी अस्थापि परे उत्कृष्ट स्वाप्राप्तागजन्मनि स्वस्य आप्तः अत्यन्तानुगतोवल्लभ इत्यर्थ यः अग्रजन्मा ज्येष्ठतनयः तस्मिन् रामे वनवासवृत्तिः न्यधायि न्य क्षेपि वनवासीव्यधायीत्यर्थः ।।
कृष्णपक्षे-कौशलायाः मित्रविन्दायाः स्वेष्टाष्टपदृमहिषीणाम न्यतमाया अधिपतिः स्वामी तेन कृष्ण यतिनामवर्तुम् यतते स्वाधर्षणायदुर्गादिकम्बिद्यते इति यतिः अथवा यतिः अथ वा यतिविष्णु. स्तस्य नाम ख्यातिम् धर्तुमाश्रयितुम् "यतिर्विष्णुरितिशब्दस्तोममहानिधिः . "कृष्णस्तु भगवान स्वयमिति पौराणिकाः" मुख्ये प्रधाने निरुपद्रवे शत्रुभिग्लङ्ग्ये सूने सूते अस्मिन् इति मुतः अधिकरणे क्तः भूमौ पदवी स्थितिः विधेया निर्मापनीया क्वचिनिर्वाहस्थाने स्वनगरी निवेशयितव्येति भावः कान्तावरिष्ठवचसा आसन्ताद्वरिष्ठः श्रेष्ठः आवरिष्ठः कान्तम् मनोहरम् यत् आवरिष्ठस्येन्द्रादेवचः वचनम् तेन देवेन्द्रादिवचनेन भरते भ्रियते धनधान्यादिसमृद्धिभिलॊकैर्वा इति भर. तस्तस्मिन् स्त्राप्ताग्रनन्मनि स्वस्य आप्तम् श्लाध्यम् अग्रजन्म पूर्वजन्म यस्मिन् तस्मिन् आपोनारा इति प्रोक्ता आपो वे नरसूनव इति मनूक्तः कृष्णस्य जलप्रसूतत्वात् परे उत्कर्षे द्वारकायामित्यर्थः वनवासवृत्तिः वने समुद्रजले वासवृत्तिः जलवासित्वम् अथवा वनमेव वासवृत्तिः