SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४ १९९ अवलम्बनीया इति विचाउँतिशेषः भरते भरताभिधेये ज्येष्ठतनये न्यधायि प्रास्थापि कान्तावरिष्ठवचसा कान्तानाम् कमनीयस्वरूपाणाम् सारस्वतादिरिष्टान्तब्रह्मलोकनिवासिदेवानाम् वचसा तेषां वच. नेन स्वतोऽपि तेषां वचनेन च परे चरमे अयुनर्भाविनीत्यर्थः स्वाप्ता. ग्रजन्मनि स्वस्य आप्तम् कल्पाणाभिमुखम् अग्रम् श्रेष्ठम् यत् जन्म तस्मिन् स्वकीय श्रेयोमुखप्रशस्तशरीरे वनवासवृतिः मुनिवृत्तिः न्य. धायि अधारि ॥ अथच स्वाप्ताग्रजन्मनि स्वस्मात् स्वतः आप्ताग्रजन्मनि प्राप्तप्रथम. जन्मनि परे उत्कृष्टे पूर्व वा वनवासवृत्तिः युगलिकधर्मप्रवृत्तिःन्यधायि प्रास्थापि स्वतो युगलिकधर्मो न्यवर्ततेति द्वितीयार्थो व्यज्यते ॥ श्रीशान्तिनाथ नेमिनाथ पार्श्वनाथ वीरपक्षेषु । श्रीकौशलाधिपतिना कुशलस्य भावः कौशलम् कुशलता क्रियानैपुण्यम् तस्मिन अधिपतिः चतुरः कौशलाधिपतिः श्रियायुक्तः कौशलाधिपतिः श्रीकौशलाधिपतिः तेन यतिनामधषु यतिसंज्ञामनुभवितुं मुख्य श्रेष्ठे चरमे इत्यर्थः सुते सूयते उत्पद्यते इति सुतम् शरीरम् तस्मिन् पदवी मुनिपदवी निधेया स्थापनीया आधेया इति विचार्येतिशेषः कान्तावरिष्ठः वचसा आममन्ताद्वरिष्ठः आवरिष्ठः कान्तानां देवानाम् आवरिष्ठम् वचः म्बसंयमग्रहणप्रयोजकम् तेन तेषां वचनेन स्वतश्च स्वाप्ताग्रजन्मनि स्वस्य स्वकीयम्य आप्तम् श्लाघ्यम् यत् अग्रजन्म श्रेष्ठजन्म तस्मि न् परे चरमे अथवा स्वः स्वर्गात् आप्तम् प्राप्तं यत अग्रजन्म तस्मिन् भरते भरति पुण्येन लोकमिति भरते अथना बिभर्ति पुण्यातिशयमितिभरतस्तस्मिन् वनवासवृत्तिः मुनित्तिः पुण्यारण्यसेवन विधिः न्यधायि आस्थापि अग्राहीत्यर्थः ॥ रामपक्षे-कोशले देशविशेषे भवा कौशला तस्या अधिपतिः कौशलाधिपति तेन कौशल्यापतिना दशरथनृपेन यतिनामधर्तुम्
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy