________________
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाव्ये
शेषत्वविवक्षया षष्ठी " नित्योदयेन नित्यमहरह: उदयः समृद्धिर्यस्य स नित्योदयस्तेन मनुजेश्वरेण मनुजानाम्मानवानाम् अथ वा मनुजेषु ईश्वरः स्वामी प्रभुः मनुजेश्वरः तेन लोकाग्रजेषु ऋषभेन लोकानाम् जनानाम् अग्रजः श्रेष्ठः तेषु ऋषभेन श्रेष्ठेन महत्स्वपि महत्तरेण अथ वा ऋपभेन ऋषभस्वामिना आदीश्वरणेत्यर्थः " स्युरुत्तरपदे व्याघ्र पुंगवर्ष कुञ्जराः । सिंहशार्दूलनागाथाः पुंसि श्रेष्ठार्थगोचरा इत्यमरः " महाभुजेन दीर्घबाहुना अनेन भाग्यशालित्वं सूच्यते अननुजे अननुचरे अनुजे अनुचरे अननुरोधिनि अनुरोधिनि च धर्मोन्नतिम् पुण्यसमृद्धिम् विदधता कुर्वता प्रचारयता साम्राज्यम् आधिपत्यम् समृद्धिमिति यावत् बुभुजे भुज्यते स्म सर्वपक्षसाधारणमेतत् अनुप्रासालंकारः ||१३|| श्री कौशलाधिपतिना यतिनामधर्तुं
१९८
मुख्ये सुते नियमतः पदवीनिधेया । कान्तावरिष्ठवचसा भरते न्यधायि
स्वाप्ताग्रजन्मनि परे वनवासवृत्तिः ॥ ३४ ॥
अन्वयः - यतिनामधर्तुं श्री कौशलाधिपतिना नियमतः मुख्ये सुते पदवीनिधेया कान्तावरिष्टवचसा भरते न्यधायि परे स्वाप्ताम्रजन्मनि वनवासवृत्तिः न्यायि ॥ ३४ ॥
व्याख्या -- यतिनामधर्चु यतिसंज्ञामनुभवितुम् यतित्वमाका ङ्क्षन् श्रीकौशलाधिपतिना कुशलायामयोध्यायां भवः कौशलः ऋष भदेवः "इतिकल्पसूत्रसुबोधिकावृत्तौ " अथवा कुशलस्यभावः कौशलम् तद्युक्तः अधिपतिः कौशलाधिपतिः श्रियायुक्तः कौशलाधिपतिः श्री कौशलाधिपतिः तेन ऋषभस्वामिना नियमतः निश्चयतः गुणतः क्रियातः धर्मतः नीतितः कुलाम्नायतः राजव्यवहारतः मुख्ये प्रधानेजन्मत इत्यर्थः सुते पुत्रे पदवी राजपदवी राज्यभारः निधेया स्थापनीया