SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-४ १९७ नवोदयः अघः पापम् यत्र तद्यथास्यात्तथा नवः नूतनः कोऽपि मा भजतु न सेवताम् नासिन प्रसक्तो भवत्विति भावः ।। अन्यपक्षेऽप्येवमेवेति ।। अथ च अमुष्य नलस्य चरणे आचरणे अनुचरोदयेच्छु: अनुचरस्य किंकरस्य दासस्यत्यर्थः य उदयः प्राप्तिः दासभावताम् तदिच्छुः अयं गज्याद् भ्रष्टो दासतां भजेदित्यभिला पुका कालः कलियुगः देव्या दिव्यते इति देवी भावेऽप् गौरादित्वान्डीप् तया देव्या देवनक्रियया सूतव्यापारण छलम् कपटम् आकलप्य अभि. सन्धाय आश्रित्येत्यर्थः नले नैषधनृपे न निहितः छल इति शेष इति न किन्तु निहित एवेति काका व्यज्यते नले सूतव्याजेन कपटो निहित इति भावः तस्मात् तत्कारणात् कोऽपि मानवः नवोदयाचं अभिनवसमृद्धकिल्विषं माभजतु मासेवताम् तथाहि क्रीड़ारसे कीड़नकौतुके अभ्यसनतः अभ्यासात् पौनः पौन्येनासेवनात् व्यसनासनानि व्यस. नस्य विपत्तः आसनानि उपवेशनानि स्थापनानीति यावत् विपत्ति प्राप्तयो भवन्तीति शेषः । अत्र श्लेषोऽर्थान्तरन्यासश्च ।। ३२ ॥ साम्राज्यमित्थमनुनीय निजप्रजानां, नित्योदयेन बुभुजे मनुजेश्वरेण ॥ लोकाग्रजेषु ऋणभेण महाभुजेन, धर्मोन्नति विदधताऽननुजेऽनुजे वा ॥ ३४ ॥ अन्वय:---निजप्रजानां साम्राज्यम् इत्थम् अनुनीय नित्योदयेन मनुजेश्वरेण लोकाग्रजेषु ऋषभेन महाभुजेन अननुजे अनुजे वा धर्मोन्नतिं विदधता बुभुजे॥३३॥ व्याख्या-निजप्रजानां स्वकीयजनानाम् अथवा स्वकीयसन्ततीनाम् "प्रजास्यात्सन्ततो जने इत्यमरः" इत्थम् पूर्वोक्तप्रकारेण साम्राज्यम् आधिपत्यम् अनुनीय खानुकूल्यम् विधाय अथवा इत्थम् पूर्वोक्तप्रकारेण प्रजानाम् जनानाम् अनुनीय स्वाधीनम्बिधाय "प्रजानामिति
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy