________________
१९६ महोपाध्याय श्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाम्चे णार्थ गिरिकाननेषु भ्रमणे तज्जन्यमित्यर्थः दुखं खेदं नासादयत् इति च न किन्तु अशादेव दुःखमासादवेत्यर्थः । पैतृकपदस्य पितसम्बधिराजपदस्य भ्रंशेनन्कैकेयीवचनपरवशेन गज्ञा दशरथेन भरताय राज्यं दत्त्वा रामश्च वनवासार्थ पित्राज्ञप्ततया सामाज्यपदस्य गहित्येन वारांनिधेः समुद्रस्य सविधे हरीणां वानराणां सुग्रीवादीनां शरणे-गृहे स्थाने इति यावत् दशां किञ्चित्कालिकस्थितिम अशामीत् । शब्दशक्तिमहिना रामपक्षीयोऽर्थः प्रदर्शितो न तु स पक्ष इहाश्रयणीयः श्री कौशलाधिपतिने त्यादि चतुवित्तमश्लोके तदर्थस्य स्पष्टमभिहित. त्वात् ॥ ३१ ॥ कालोऽप्यमुष्य चरणेऽनुचरोदयेच्छ
र्देव्या-नले-न निहतश्छलमाकलय्य । तन्मानवो भजतु कोऽपि नवोदयाघ,
क्रीडारसेऽभ्यसनतो व्यवसनासनानि ॥३२॥ अन्वयः--कालोऽपि अमुष्यचरण अनुचरोदयेच्छुः देव्या अनले न निहत: छलम् आकल्य क्रीड़ारसे अभ्यसनतः व्यसनासनानि नवः कोऽपि नवोदयाघम् तत् भाभजतु ॥ ३२ ॥
व्याख्या-कालोऽपि समयोऽपि अमुष्य जिनेन्द्रस्य चरणे चारित्र्ये अथवा चरणे पदे अनुचरोदयेच्छु: अनुचरस्य सेवकस्य य उदयः समृ. द्विस्तदिच्छुस्तदभिलाषुकः देव्या देवाङ्गनया अप्सरसा अथवा देव्या देवमायया रचितम् उद्भावितमिति शेपः छलम् कपटम् आकलव्य बुध्याविमृश्येति यावत् अनले अग्नौ यथा वह्निः सर्व भश्मसात् करोति स्पृष्टस्तथा मामप्ययं कुर्यादिति न निहतः न प्रयोजितः निवृत्तिमकरोदिति भावः क्रीड़ारसे खेलारसे अभ्यसनतः अभ्यासात् व्यसनासनानि व्यसने दुराग्रहे आसनम् उपवेशनम् तदभिनिवेशः तानि नवोदयाघ म्