________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४
नारायणः पशुधियो कृतकं स नाशान्नासादयन्नगवन भ्रमणेन दुःखम् ॥ भ्रंशेन पैतृकपदस्य दशामशासीद्, वारांनिधेश्व सविधे शरणे हरीणाम् ॥ ३१ ॥
अन्वयः -- नारायणः नाशात् स पशुधिया उपलक्षितः नगवनभ्रमणेन कृतकं दुःखं नासादयत् पैतृकपदस्य अंशेन वारांनिधेः सविधे हरीणां शरणे दशामशासीत् । रामपक्षे – स नारायणः कृतकं पशुविया नाशात् नगनवननमणे दुखं नासादयत् इति च न पैतृकपदस्य श्रंशेन वारांनिधेः पूर्ववत् ॥ ३१ ॥
१९५
KAVAAAAA
व्याख्या - नारायण: = नृणां समूहो नारं तत् अयते = जानाति इति नारम् आययति = प्रवर्त्तयति स्वेष्टकर्मणीति वा नुः इदं नारम्= अज्ञानं वद् आययति = गमयति निवर्तयतीति वा सः । नाशात्-न आशां लोभं परिग्रहविषयकम् अततीति सः नाऽऽशात् नैकधेत्यादाविवेहापि नजतिरिक्तनशब्दसद्भावान्नलोपाभावः सः = ऋषभः पशुधिया= सम्यग्बुद्धया उपलक्षितः अतएव नगवन भ्रमणेन = पर्वत = काननप्रभृतिषु विहरणेन कृतकं = कृत्रिमं दुःखं न आसादयत् न प्राप्तवान् किञ्च पैतृकपदस्य = कुल परम्परागतराजपदलक्षणपितृसम्ब न्धिस्थानस्य अंशेन = अधःपातनेन अवहेलनेन परित्यागेनेति यावत् वारांनिधेः- समुद्रस्य सविधे - समीपदेशे हरीणां सिंहानां शरणे= आश्रयस्थाने वने इति यावत् दशां= चरमावस्थाम् अशासीत् = तपश्चया तनूकरोति स्मेत्यर्थः प्रापयामासेति यावत् ॥
श्रीरामपक्षे - सः = प्रसिद्धः नारायणः = नारायण इव विष्णुसदृश इत्यर्थः श्रीरामबलदेवः कृतकं = कृत्रिमं मायया हेममृगरूपधारिणं मारीचमिति यावत् पशुधिया - मृगलक्षणः पशुरयमिति बुद्धयैवेत्यर्थः न अशात् = अशातयत् इति नगवन भ्रमणे = रावणाऽपहृत सीतान्वेष
•