________________
१९४
महोपाध्याय श्रीमेघविजयगणिविरन्धिते महसन्धानमहाकाव्ये
वंशानां कीचकेषु या नीचवृत्त्या निम्नावस्थित्या च वंशाधोऽवस्थाने. नेत्यर्थः मात्रासमप्रमाणेनाऽतुल्यं यथास्यात्तथा शीतासन्तापं शीतं च आसन्तापश्चाऽनयोः समाहारः हेमन्तादित्रिके शैत्यं ग्रीष्मादित्रिके औष्ण्यं च आप-आयेत्यर्थः । हत इति कोमलामन्त्राणे ।
शान्तिनाथ-कृष्णवासुदेवपक्षे-धर्मात्मना=धर्मे धनुषि न्याये वा आत्मा मनो यस्य स तेन अत एव विहितकैतवसेवनेन-विहित कैतवैः रिपुभिरपि सेवनं यस्य स तेन विशिष्टं हित-कैतवयोः मित्रशवोः सेवनं यस्मिन् स तेनेति वा अवनलीनतया जगद्रक्षणपरायण तयाचनानि-रक्षाकर्माणि संसविरे आश्रितानि ।। __श्रीरामपक्षे धर्मात्मनाधर्मे-शिष्टाचार आत्मा मनो यस्य तेन मर्यादापुरुषोत्तमेन विहितकैतवसेवनेन-विगतं हिते-जगदिष्टसाधने कैतवस्य छलस्य सेवनं यस्मादिति. विशेषेण हितगतं कैतवस्य छल. स्य सेवनं यस्मादिति. विशेषेण हितं-गतं कैतवस्य छलस्य द्यूतस्य वा सेवनं यस्मादिति वा. विहितं कैतवेन=रिपुणा-क्षणकतिपयशात्रवी. भूतेन परशुरामेण शत्रुपक्षीयेण रावणानुजविभीषणेन सेवनं भक्तिभावो यस्य स तेन तथाविधेन श्रीरामबलदेवेन आप्यवनलीनतया= आप्या-समासाद्या वने या लौनता-चतुर्दशवर्षावधिकनिवसतिस्तया हेतुना वनानि दण्डकारण्यानि संसेविरे । अथ शीता-श्रीराममनुगच्छन्ती जानकी द्रुपदजातिशयेन बनस्थलीशयनेन कदाचित कीचकनीचवृत्त्या वंशाधोऽस्थिन्या मात्रा सम-प्रमाणेनातुल्यम् अ तिमात्रं सन्तापं खेदम् आप-आससाद प्राप्तवतीत्यर्थः । कैतवं छूतदम्भयोः । कैतवः कितवे शत्रौ इति हेमः । शीता नभस्सरिति लांगलपद्धतौ च सीता दशाननरिपोः सहधर्मिणी चेति तालव्यादौ धरणिः। कीचको दैत्यभिद्-वाताहतिसखनवंशयोः, विराटराजश्याले चेति शब्दार्णवः ।। ३० ॥