SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्री विजयामृतसूरिप्रणीता मरणी टीका. सर्ग-४ १९३ न निवर्तेत द्यूतादपि रणादपीत्युक्ते रणार्थ घृतार्थ वाऽऽहूतेन क्षत्रियेण रणद्यूतविधानस्य च क्षात्रधर्मोचितत्वात् । धर्मात्मना-धर्म-पुण्ये आ. चारे वा न्याये वा आत्मा बुद्धिश्चित्तं वा यस्य तेन धर्मात्मजेन युधिष्ठिरेण आप्यवनलीनतया-आप्या स्वीकृता वनवास-गुप्तवासरूपातपण निर्वाह थि प्राप्यावने द्वैतवने या लीनता-श्लिष्टता आश्रयायिभाचेन मम्बद्धता निव मतिरित्यथैः निवास इति यावत् तया हेतुना बनानिद्वैत नानि संसेविरे-निषेवितानि । तदनु कदाचित् गुप्तवासयापनीयवर्षावधिककालाभ्यन्तरे विराटगृहे पाण्डवैः साकं निवसन्ती द्रुपदजाद्रौपदी हतकीचकनी चवृत्या-हतस्य दुर्विदग्धस्य कीचकस्य-तदाख्यस्य विराटराजश्यालकस्य द्रौपदीरूपदर्शनचलितचेतसस्तद्धर्षणार्थ चेष्टमानस्य नीचवृत्त्या-सुरतप्रार्थनालक्षणाऽसदाचरणेन मात्रासमंप्रमाणेनातुल्यम् अतिमात्रमित्यर्थः सन्तापं-खेदमाष-लेभे पतिव्रता. त्वात् सा कीदृशी? अतिशयेन सीता अतिशयेन--अतिमात्रम् इने पत्यो पाण्डवे शीता-अनुष्णा अतीक्षणा इति सा शान्तप्रकृतिकेत्यर्थः । यद्वा सीता-सीता इवेति लुप्तोपमा। अतिशयेने त्यस्य आपेति क्रिययान्वयः। ऋषभ नेमिः पार्श्व-वीरपक्षेषु-विहितकतवसेवनेन-हितं-मित्रादि कैतवं-छलं द्यूतं वा यद्वा कैतवः-शत्रुः तयोस्सेवन-भजनं सम्बन्ध इतिभावः विगतं हित-कैतवसेवनं यस्मात् सः तेन रागद्वेषविनिर्मुक्तनेत्यर्थः । धर्मात्मना-पुण्यशीलेन जिनदेवेन आप्यवनली. नतया-तपश्चरणार्थ प्राप्यवननिवासतया यद्वा अवनलीनतया-जीवरक्षणपरायणतया हेतुना वनानि-तपोवनानि अवनानि-जीवरक्षणकआणि वा संसेविरे-भेजिरे । अत एव द्रुपदजातिशयेनद्रूणां-वृक्षाणां पदं स्थानं द्रुपदं वनं तत्र जातोऽतिशयः शयनं तेन यथा कीचकनीचवृत्त्या कीचकानां
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy