________________
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धान महाकाव्ये
व्याख्या - जयाढ्य विजयैः =जयसंवलित विजयैः उदारनीत्या= असाधारणनीच्या दातृनीत्या वा निम्र्मीयमाणसुकृतैः = विधीयमानपुण्यकार्यैश्च साधनैःः तत् कृतं युगं सत्ययुगं प्राप्तं किम् ? यतः (जया ढ्यविजयैः जय सहितवि जयशालिभिः, निर्मीय माणसुकृतैः = पुण्यकार्यविधायिभिः) लोकैः पथः = सन्मार्गात् किञ्चित - अल्पमपि न चलितं == स्खलितम् नापि कलितः =कलिना = कलहेन क्रेशेन वा कलियुगेन वा चालितैरभावीति शेषः यद्वा लोकैः = जनैः पथः = सन्मार्गः कलितः = गृहीतः आश्रितः ततश्च किञ्चित् = मनागपि न चलितम् । युक्तं चैतत् यतः ईश्वरराज्ययोगे= अतिक्रमः = धर्माद्युल्लङ्घनम् क्रम- परिपाटी-समुल्लङ्घनं चास्खलितं=स्खलनं = कूटयुद्धादौ प्रवृत्या वीरमर्यादातः पतनं मर्यादाभ्रंश वा सन्मार्गादिश्वलनं वाऽपि न अजनि लोकेषु । वर्त्म - मार्गा-ध्व - पन्थानः पदवी सृतिरित्यमरः । पथ इत्यकारान्तत्वे च 'वाटः पथच मार्ग' तित्रिकाण्डशेषः प्रमाणम् ॥ २९ ॥ धर्मात्मनाप्यवनलीनतया वनानि,
I
संसेविरे वितिकैतव सेवनेन । मात्रासमं द्रुपदजातिशयेन शीता
१९२
संतापमाप हत कीचकनीचवृत्त्या ॥ ३० ॥
अन्वयः -- विद्दितकैतत्र सेवनेन धर्मात्मना आप्यवनलीनतया वनानि संसेविरे अतिशयेन शीता दुपदजा इतकीचकनीच वृच्या । मात्राऽसमं सन्तापमाप ऋषभादिप क्षेषु विहिततव सेवनेन धर्मात्मना आध्यचनलीनतया ( अचनलीनतया च ) वनानि ( अवनानिच) संसेविरे द्रुपदजातिशयेन कीचकनी चवृत्या च मात्रासमं शीताऽऽसन्तापमाप हुन् ॥ ३० ॥
व्याख्या - विहित कैतव सेवनेन = विहितं = कृतं क्षात्रधर्मानुरोधेन द्यूतक्रीडनार्थमाह्राने कैतवस्य = द्यूतस्य सेवनं येन सः तेन, आहितो