________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-४
१९१
भूमिस्थिते वा नम्रत्वम् आश्रय किञ्च राजापि वन्यव्रताचरणतः= वनिनां बननायकानां भिल्लादीनाम् अवताचरणतः भोजनाभावात् मौनं मुनित्वं अदधात अपुष्यत् ।
शान्तिपक्षे कृष्णपक्षे-भीमेऽपि पश्यति सुरे अहीनकुले यदि वा कुलीने नरे नम्रत्वं-नम्रभावः आश्रयत् नम्रताऽऽश्रितेत्यर्थः धृत. धर्मजन्मा गृहीतपुण्यार्थजनुः धृतं धर्माय-न्यायाय जन्म येन स इति वा देवः श्रीशान्तिनाथप्रभुः राजापि प्राज्यसाम्राज्यसंजातशा. तजातानुभवितापीतिभावः बन्यव्रताचरणतः वानप्रस्थाचर्यनियमात मौनं धर्मम् अदधात् ।
रामपक्षे-धृतधर्मजन्मा-गृहीतन्यायावतार देवः बलदेवः श्रीरामचन्द्रः राजापि-क्षणकतिपयाऽनन्तरमेव सम्भावितराज्याभिषे. कोऽपि वन्यत्रताचरणतः चन्यैःवनभवैः कन्द-फलादिभित्रताचरणता-अशनक्रियानिष्पादनेन सह मौनं-मुनित्वं तापसत्वमदधात् भीमेऽपि पश्यति मुरे य दि=अथ वा वानरे अहीनकुले ऽकुलीने वा नम्रत्वं आश्रीय वासुदेवधृतधर्मजन्मा गृहीतधर्मावतारः देवः राजापि।।२८॥ प्राप्तं जयाट्यविजयैः किमुदारनीत्या,
निर्मीयमाणसुकृतैस्तु युगं कृतं तत् । लोकैः पथश्च कलितश्चलितं न किञ्चि
नातिक्रमः स्खलितमीश्वरराज्ययोगे ॥२९॥ अन्यः-जयाढ्य विजयैः उदारनीत्या निर्मीय माणसुकृतेः तत् युगं कृतं प्राप्तं किमु ( यत: जयाढ्यविजयैः निर्मीयमाणसुकृतश्च ) लोकैः पथः किञ्चित् न चलितं, नापि कलितः ( चालितैरभावि ) लोकैः पथः कलितः किञ्चित् न चलितम् । ( यतः ) ईश्वरराज्ययोगे अतिक्रमः स्खलित ( च न ( लोकेऽजनि ॥ २९ ॥