________________
१९०
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्ये
भीमेऽपि पश्यति सुरे यदि-वा-नोऽपि,
नम्रत्वमाश्रयदहीनकुले कुलीने । वन्यत्रताचरणतः सह-देव एव,
राजापि मौनमदधाद धृतधर्मजन्मा ॥ २८ ॥ __ अन्वयः--अहीनकुले कुलीने सुरे पश्यति भीमे यदि वा नरे सहदेवे अपि नकुले च नम्रत्वम् आश्रयत् धृतधर्मजन्मा राजापि वन्यव्रताचरणतः मौनमदधात् । ऋषभादिपक्षे-मृतधर्मजन्मा देवः राजापि भीमेऽपि पश्यति सुरे यदि वा नरे रामपक्षे यदि वानरे अहीनकुले कुलीने नम्रत्वमाश्रयत वन्य व्रताचरणतः सह मौनमदधात् ॥ २८ ॥
व्याख्या-पाण्डवक्षे-अहीनकुले-महाकुलसंभवे कुलीने-रजने भूमिस्थिते वा निर्वासितत्वात. सुरे=पण्डिते विवेकिनि पश्यति--सर्व समक्षं संवृत्तघटनां साम्राज्यहरण-द्रौपदीकेशांऽशुकाकर्षण-द्वादशवर्षावधिकप्रकाशवनवास-वकावधिकगुप्तवासादिरूपां साक्षात्कुर्वति भीमे=वृकोदरे भीमसेने इति यावत् यदि वा नरे अर्जुने देवे-सहदेवे नामैकदेशग्रहणे नामग्रहणात् अपि शब्दसंगृहीते नकुले च नम्रत्वं विनम्रभावः नम्रतेति यावत् आश्रयत् अवालम्बत न ते व्यक्रियन्तेति भावः तदनु धृतधर्मजन्मा धृतं गृहीतं धर्मात्म्यमात् जन्म येन स धर्मात्मजो युधिष्ठिरः राजाऽपि वन्यत्रताचरणत: वन्यानांवनेवासितपस्विनां व्रतस्य-नियमस्य आचरणत: सार्वविभक्तिकस्तसिः आच. रणेनेत्यर्थः यद्वा बनेभवानि वन्यानि तैव्रताचरणं-भोजनक्रियासम्पादनं तेनेति ततः सह-सार्द्ध मौनं मुनित्वं दधौ ।
ऋषभ-नेमि-पार्श्व-वीरपक्षे-धृतधर्मजन्मा-धृतं गृहीत धर्मरूपं जन्म येन सः यद्वा धृतं धर्माय-पुण्याचरणाय जन्म येन सः देवःऋषभदेवः नेमिः पार्श्वनाथः वर्द्धमानश्च भीमे रौद्रेऽपि पश्यति मुरे देवे यदि वा नरे-मानवे अहीनकुलेन्महोचकुलजे कुलीने कुलपति