________________
भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४ १८९ योस्तु स्वगुरो स्वपितुः अग्रत: अग्रे एव अत एव अनिष्टः स्वपितुरप्रियश्चेति विशेषः । महावीरपक्षे तु स्वगुरोः स्वज्येष्ठभ्रातुः अग्रत - अत एव । यमविधिः अहिंसादिपञ्चमहाव्रतविधानं संयमधारण. मित्यर्थः दीक्षाग्रहणमिति यावत् सभासमक्षं गोष्ठीसांमुख्य एव कृष्णालकग्रहणकर्म-कृष्णानां- तारुण्यविजृम्भितश्यामलिमशालिनाम् अलकानां-निजशिरः केशानां ग्रहणकर्म-पञ्चमुष्टिलोचकर्म च क्रस्य भविन:-विवेकिजनस्य वैराग्यहेतुः-विगतो रागः-स्रक्-चन्दन-वनितादिविषयेष्वमिषङ्गो येषां ते विरागास्तेषां भावः कर्म वा वैराग्यं तस्य हेतु भवत् सर्वस्यैवाभवदित्यर्थः । महेन्द्रमहेश्वर्यातिशायिसाम्रा ज्यशालिकुलसंभवोऽप्येष साम्राज्यविजृम्भितानुपमभौममुखजातं तृण. मिवनिरस्य राजकुमारादिसुदुष्कराऽरुष्करमुष्टिपञ्चकमितके शलुश्चनपूर्वक दीक्षाग्रहणमकरोत् इति धिङ् न आपातरमणीयपर्यन्त परितापिविशं. कटविषयाटवीलग्नदावानलविसृमरशिखावलौविकलितचेतस्कान् इत्येवं सर्वस्यैववैराग्यं प्रादुरभूत् । शेषं पूर्ववत् ऋषभ-शान्त्योरप्यपमी विदेलिमः। अहिंसा सत्यवचनं ब्रह्म वयेमकल्कता । अस्तेयमिति पञ्चैते यमाख्यानि नतानिच' । रागस्तु मात्सर्य लोहितादिषु. क्लेशादावनुरागे च गान्धारादौ नृपेऽपि चेति मेदिनी ।
श्रीरामपक्षेत्वित्थंविधोऽप्यर्थः सम्भवति तथाहि—स्वगुरोःस्वपितुर्दशरथस्य अग्रतः अनिष्टः-अत्यन्ताप्रियः भीष्मः-अनिसुकुमारराजकुमार (राम ) दुष्करतया पुत्रवियोगजन्यशोकातिरकसंभावित. राजमरणहेतुना वा सुदारुणः यमविधिः-संयमग्रहणं चतुर्दशवर्षावधिकतापसत्रतधारणमिति यावत् तथा सभासमक्ष-सर्वसमक्षमित्यर्थः कृष्णालकग्रहणकर्म-कृष्णानां-भृगवदतिश्यामलानाम् अलकानां-चूर्णकुन्तलानां ग्रहणकर्म-तापसधायेंजटावत्संहत्यवन्धनमित्यर्थः कस्य भ. विनः-सहृदयहृदयस्य वैराग्यहेतुः-विषयरागराहित्यकारणं कैकेयिविषयकस्नेहराहित्यकारण वा नाभवत् सर्वस्यैवाभूदित्यर्थः ।। २७ ॥