________________
१८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
रादेः अग्रतः पुरस्तादेव अनिष्टः अत्यन्ताप्रियः भीष्मः दारुणः अस. ह्यतमः सभासमक्षं-परिपत्प्रत्यक्षे कृष्णालकग्रहणकर्मन्द्रौपदीकेशाकर्षणव्यापाररूपः अयम् अविधिः अप्रशस्त-गर्हित-विधानं कस्य भविनः भावुकजनस्य वैराग्य हेतु: विशिष्टो रागः मात्सर्य विरागः स एव वैराग्यं अत्यन्तमात्सर्यम् (स्वार्थेष्यञ्) यद्वा विगतो रागः अनुरागः स्नेहो यस्य स विरागस्तस्य भावो वैराग्यं (दुर्योधनविषये) स्नेहरहितीभावः (स्नेहराहित्यं) तस्य हेतुः कारणं नाऽभवत् सर्वस्यैवाऽभवदित्यर्थः । 'भीष्मोदितो-यमविधिः' इति पाठे भीष्मम् दारुणं दुःसह. मित्यर्थ उदितम्-उदय उक्तिर्वा यत्र स इति भीष्मेण शान्तनुपुत्रेण कौरव-पाण्डवपितामहेनेत्यर्थः उदित: कथित इति वा भीष्मोदितः। अन्यपक्ष-भीष्मः=दारुणः अदितः अखण्डित इत्यर्थो बोध्यः । यत्घटनादिकम् अवश्यभावि-निश्चित भवितव्यताकं तत्सवे देवस्य-अदृष्टस्य वश्यम् अधीनम् । अवश्यंभाविभावानामप्रतीकार्यत्वात् ।
ऋषभ-शान्ति-राम-कृष्णपक्षेषु-स्वगुरोः पित्रादिस्वगुरुजनस्य अनिष्ट:-अप्रियः भीष्मादारुणः अग्रत:=पुरा-यौवराज्यकाल एवे. त्यर्थः सभासमक्ष कृष्णालकग्रहणकर्म-रलयोरेकन्वस्मरणात् कृष्ण श्यामं पगजयजन्यदैन्यमलीमममित्यर्थः यत् आलकम् आरकम्= अरीणां समूह आरं तदेवारकं तस्य ग्रहणकम्मे निग्रहव्यापार इत्ययम् अविधिः अनुचिताचरणं यद्वा यमविधिः-यमस्य-दण्डधरस्येव विधानं कस्यभविना दुष्टनिग्रहाकाङ्गिणो जनस्य वैराग्य हेतुः विशिष्टो रागा अनुरागः स्नेहः विरागः स एव वैराग्यं तस्य हेतु भवत् । देवस्येत्यादिपूर्ववत् ।
नेमि-पाचवीरपक्षेषु- --स्वगुरोरनिष्टः भीष्मः दुष्करत्वादारुणः अग्रता प्रथममेव वार्द्धक्यावस्थाप्राप्तितः पूर्वमवेत्यर्थः नेमि-पार्श्वपक्ष.