________________
प्राचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४
१८७
अन्वयः—हे नरपते ! प्रभया प्रभाते स्वच्छासने भुवि वर्तमाने जनौघः मनाक तु अन्यायवर्त्तनमनाः न ( अस्ति ) सोऽयं तव वास्तवः प्रभावविभवः अभूत् इति मागधगण आह ॥ २६ ॥
व्याख्या-हे नरपते! युधिष्ठिरमहाराज? पक्षे विश्वसेनादि. नृपते ! प्रभया प्रभावादिजनितदीप्त्या प्रभाते-भातुं प्रवृत्त त्वच्छासने-तव शास्तिकर्मणि भुवि भूतले वर्तमाने विद्यमाने मति जनौधः= लोकसमूहः मनाक-अल्पम् तु अपि अन्यायवर्तनमना: अन्यायेन= असमञ्जल-अनुचित-विधिना अनीत्या वा वर्तने-आजीविकाकरणे यद्वा अन्याये असमञ्जसे अन्याय्ये. इत्यर्थः अनुचिते इति यावत् वर्तने जीवनोपाये मनो यस्य स तादृशः न अस्तीति शेषः सोऽयं वास्तवःयथार्थः तव-भवतः प्रभावविभव:प्रतापमहिमाऽभूत इति मागधगणः बन्दिजनसमूह आह ॥ २६ ॥ भीष्मोऽग्रतो-यमविधिः स्वगुरोरनिष्टः,
__ कृष्णालकग्रहणकर्म सभासमक्षम् । वैराग्यहेतुरभवद् भविनो न कस्य,
देवस्य वश्यमखिलं यदवश्यभावि ॥ २७ ॥ अन्वयः स्वगुरोरनिष्टः अग्रतः (स्वगुरोरपतः अनिष्टः) भीष्मः सभासमक्ष कृष्णालक ग्रहणकर्म अयमविधिः कस्य भविनो वैराग्य हेतुनीऽभवत् यत् अव. श्यभावि तत् अखिलं देवस्य वश्यम् । ऋपभादिपक्षेपु.--स्वगुरोरनिष्ठः अग्रत: भीष्मः सभासमक्ष कृष्णालकग्रहणकर्म यमविधिः कस्य भविनः वैराग्यहेतुर्नाभवत् ॥ २७ ॥
व्याख्या-पाण्डवपक्षे-स्वगुरोः (स्वस्य-आत्मनो गुरो:-पितुः) निजजनकस्य धृतराष्ट्रस्य यद्वा स्वगुरोःखोपदेण्डद्रोणाचार्यादेः स्वगु. रुजनस्य भीष्मादेर्वाऽपि अनिष्टः अनभीप्सितः अप्रिय इति यावत् अग्रतः पत्यादिवन्धुजनानां पुरत एवं यद्वा स्वगुरोः खपत्युर्युधिष्ठि