________________
१८६ महोपाध्यायश्रीवविजयगणिविरचिते सप्तसन्धानमहाकाग्ये नादयोग्यां जननाद: जनरवः कोलीनमित्यर्थः लोकापवाद इति यावत् तस्य योग्यां तदर्हाम् क्षिति-क्षयं नाशमित्यर्थः यद्वा क्षिति-भूमि स्वतः स्वयमेव प्रापुःलेभिरे पश्चत्वमापन्ना इत्यर्थः भृमिलाभस्यापि लोके शास्त्रे च मरणवाचित्वेन प्रसिद्धिः तथा च भूमिं प्रापुरित्यस्य मृता इत्यर्थः ॥ यद्वा सामाशुपायत्रितये न ये राजानो वश्यतामुपगतास्ते तुरग-हस्तिरथा नामभावः सहैव स्वापुण्यलब्धजननात जननादयोग्यां क्षिति-क्षयं नो प्रापुः । अथवा ये सामादित्रिकेण वशत्रर्तितामुपगतास्ते तुम्ग-हस्ति-रथाद्यानां भावैः सद्भावरुदयैर्वा सह स्वापुण्यलब्धजननात्-जननादयोग्यां-जननादा-साधुवादः-धन्यवादलक्षणलोकवादस्तद्योग्यां-तदाँ क्षिति-निजगेहं स्वभुवं-निजशास्यराप्रमिति भावः नो प्रापुः काका प्रापरेवेत्यर्थः अन्यपक्षेत्रप्ययमर्थः साधारणतयैव प्रतिभाति केवलं 'ये नरपाः' इत्यस्य 'श्रीविश्वसेनादिराजानां ये प्रत्यर्थिपृथ्वीपत्तयः' इत्यर्थों विदेलिमः। अत्र प्रसङ्गात् सामादिभेदा उच्यन्ते। 'परस्परोपकाराणां दर्शनं गुणकीत्तनम । सम्ब न्धस्य समाख्यानमायत्या संग्रकाशनम् ॥ वाचां पेशलया साधुस्तवाहमिति चार्पणम् । इति साम विधानः साम पञ्चविधं स्मृतम्' । प्रतिदानं तथा तस्य गृहीतस्यानुमोचनम् । द्रव्यादानमपूर्व च स्वयंग्राहप्रवर्तनम् देयस्यप्रतिमोक्षश्च दानं पञ्चविध स्मृतम्। स्नेहरागापनयनं संहर्षोत्पादनं तथा। संतर्जनं च भेदभेदस्तु त्रिविधः स्मृतः ।। क्षितिगैहे भुवि क्षये इति हैमः ॥ पुंस्यादिः पूर्व-पौरस्त्य-प्रथमा-ऽऽद्याः इत्यमरः । २५।। सोऽयं प्रभावविभवस्तव वास्तवोऽभू
दित्याह मागधगणः प्रभया प्रभाते । नान्यायवर्तनमनास्तु मनाग जनोघ
स्वच्छासने नरपते ! भुवि वर्तमाने ॥२६॥