________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-४ १८५ ग्रहणे नामग्रहणात् पदैकदेशे पदसमुदायोपचाराद्वा हरिवंशे मूर्यवंशे इक्ष्वाकुवंशे इत्यर्थः जातः नाभिः विश्वसेनः अश्वसेनः सिद्धार्थराजो दशरथच. तथा हरिवंशे यादवकुले जातः समुद्रविजयो वसुदेवश्च अत्रपंस्पष्टम् यथा तथाऽवनविधौ -जीवरक्षाकरणे नश्यत्समस्तसुदृशं प्रमीलां-तन्द्रां प्रमादमिति भावः विमोहलीलां मृढभावमविवेकित्वमिति यावत् च न चक्रे ॥ २४ ॥ साना प्रभावितरणेन विभेदनेन,
नो वश्यतामुपगता नरपाः क्षितिं ते । प्रापुः स्वतस्तुरगहस्तिस्थाद्यभावैः,
स्वापुण्यलब्धजननाजननादयोग्या: ।। २५॥ अन्वयः--ये नरपाः साना प्रभावितरणेन विभेदनेन वश्यतां नो उपगता ते तुरगहस्तिरथाद्यभावैः स्वापुण्यलब्धजननात् जननादयोग्यां क्षिति प्रापुः । अथवा ये नरपा: साम्ना प्रभावितरणेन विभेदनेन वश्यामुपगताः ते तुरगहस्ति. रथाद्यभावः । मह ) स्वापुण्यलधाननात जननादयोग्यां क्षितिं स्वत: नो प्रापुः ॥ २५ ॥
व्याख्या-ये नरपा:-सुयोधनादयस्तत्पक्षवर्तिनोऽन्ये च नृपाः साना-परस्परोपकारप्रदर्शनादिना पञ्चविधेन सान्त्वेन प्रभावितरणेनप्रतिदानादिना पञ्चविधेन दानेन-विभेदनेन-भेदेन स्नेहरागापनय. नादिना त्रिविधेनोपजापेन इत्येतदुपायत्रितयेन यदा वश्यताम्-वश. वर्तितां विधेयतामित्यर्थः अनुकूलतामिति यावत् नो-नैव उपगताः तदा ते प्रतीपावनियाः तुरगहस्तिरथाद्यभावः -अश्व-गज-रथाद्यायोधनसाधनविनाभावेन. द्वन्द्वान्तेश्रूयमाणस्य रथशब्दस्य तुरगहस्तिभ्यां संवन्धेन अश्वरथ-गजरथादीनां गहित्येनेल्यर्थः तन्त्रेणावृ. त्या वोक्त पदस्योभयार्थपरताविदेलिमा । स्वापुण्यलब्धजननात्-जन