________________
१८४
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
दृनिमीलनमिति यावत् विमोहलीलां-मूहभावं च चक्रे । कुहना दम्भचर्यायामिति. तश्चौरा-मृत पृच्छेषु क्रोडे म्लेच्छे च कुत्रचित् अघुमास्तरणे पुण्ये कथितः शब्दवेदिभिः इति च मेदिनी. तकार श्रौर्य-गर्वयोरित्येकाक्षरकोशः । तत्मादृश्यमभावश्च तदल्पत्वं तदन्यता. अप्राशस्त्यं विरोधश्च नअर्थाः पट्मकीर्तिताः । अथ वा यः नरः अनतया सञ्जया तया प्रसिद्भया कुहनया दम्भचर्यया लोभान्मिथ्येर्यापथसंपादनयेत्यर्थः अर्थलिप्सया मिथ्याधर्माश्रयणेनेति यावत् जित:वशीकृतः सः नरः वृत्त्याजित:वृत वर्तन-चिरस्थितिजीवनोपायो वा तेन त्याजितः परिहापितः स्यात् । स परिषत्समक्षं-जनतासमक्षं पाश्चालिकां=पुत्रिका वस्त्र-दन्तादिरचितपुत्तलिकाम् अवसनां-नग्नां चक्रे सनरः व्यर्थप्रयास इत्यर्थः धनवत्वेऽप्यधनत्वमिति भावः ।
यद्वा तया-प्रतीत्या न कुहनया-दम्भचर्यया सम्पादितयेति शेषः दम्भरहितयेत्यर्थः आजितः संग्रामात् वृत्या आजीविकया जितः स पाञ्चालिकामवसनां न चक्रे नकारस्योभयत्रयोगात् सफलप्रयासो ऽयं पुरुषः इति विचार्य हरिजः इन्द्रजोऽर्जुनः यद्वा हरि अनिलस्त. स्माज्जातो भीमसेनः अथ वा हरिः-यमः तज्जातो युधिष्ठिरः अत्रअस्मिन् पावनविधौ-न्यायकार्य नश्यत्समस्त सुदृशः नश्यन्त्यः-अनिमिपन्त्यः समस्ताः समस्तानां चा सुदृशः नेत्राणि यस्यां सा तां तादृशी प्रमीलां-तन्द्रां विमोहलीलां-मूढ़भावं च चक्रे । कुहनालोमा. मिथ्येर्यापथकल्पनेत्यमरः । पाञ्चालिका पुत्रिकास्याद्वस्त्रदन्तादिभिः कृतेति चामरः । यमा--ऽनिले-न्द्र-चन्द्रा--ऽर्क-विष्णुसिंहां--- वाजिषु । शुका-ऽहि-कपि-भेकेषु हरि कपिलेत्रिषु इति. तन्द्री ग्रमीला इति चामरः। __अन्यपक्षेषु-हरिः-सूर्यः-सूर्ययशा भरतचक्रीवर्तिमुतस्तस्माजातः हरिजः-ऋषभप्रपौत्रः । अथ वा हरिजः-हरिः-हरिवंशः नामैकदेश