________________
आचार्यश्री विजयामृतसूरिप्रणीता सरणी टीका, सर्ग-४ १८३
वृत्त्या - जितः कुहनया-न-तयाजितः सपाञ्चालिकामवसनां परिषत्समक्षम् ।
aisa - पावनविधी हरिजः प्रमीलां,
नयत्समस्तसुदृशं च विमोहलीलाम् ॥ २४ ॥
अन्वयः - कुनया वृत्त्या जितः तया ( तनया) अजितः स परिषत्समक्षं पाञ्चालिकाम् अवसतां चक्रे, उपावनविधी (अत्र पावनविधौ ) हरिजः नश्यत्स मस्तसुद्दशे प्रमीलां विमोहलीलां च चक्रे । यद्वा चः अनतया कुहनया जिनः स वृत्त्याजितः न परिक्षं पाञ्चालिकाम् अवसनां चक्रे ( तया न कुहनया आजितः वृत्या जितः स पाञ्चालिकाम् असतां न चक्रे ) इति विचार्य हरिज: अत्र पावनविधौ नश्यत्यमस्तसुक्षं प्रमीलां विमोहलीलां च चक्रे । ऋषभादिपक्षे - हरिजः अत्र पावनविधौ नश्यत्समस्तसुदृशं प्रमीलां विमोहलीलां च न चक्रे ॥ २४ ॥
व्याख्या -- कुह्नया=दम्भचर्या लक्षणया वृत्या वर्तनेन जितः = वशीकृतः दाम्भिक इत्यर्थः तया = पुण्येन = पुण्यकर्मणा च न जितः अधार्मिक इत्यर्थः यद्वा नतया नास्ति तःगवयस्यां सा नता= अनहंकृतिः नम्रतेत्यर्थः तथा अजितः अवशीकृतः उद्धत इति यावत् स=दुर्योधनः परिषत्समक्षं = सभा ( सदां ) प्रत्यक्ष एव पाञ्चालिकां= द्रौपदीम् अवसन=नञोऽल्पार्थकत्वेन आकृष्टबहुतरांशुकांशतया अल्प वस्त्रां नमप्राणमिति भावः चक्रे अस्मिंश्च त्रपावनविधौ =त्रपां=लज्जाम् आवयति गमयति-प्रापयति ग्राहयति वाऽसौ यद्वा पाया अवनंप्राप्तिर्यस्मात्स त्रपावनः = लज्जाजनकः अवतेर्ण्यन्ताच्छुद्धाद्वाल्युः स चासौ विधिः- विधानं तस्मिन् यद्वा अत्र पावनविधौ - अकीर्तिप्रापककर्मणि ! वस्त्राकर्षणलक्षणाऽसद्व्यवहारे इत्यर्थः जायमाने हरिज:-- जातावेकचचनं युधिष्ठिर - भीमार्जुनाः नश्यत्समस्तसुदृर्श - निमीलित सर्वजनलोचनां प्रमीलां=अशक्योपायतया नितान्तास दर्शनतया च तन्द्राभावनां