________________
१८२
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
सर्वभूमेः काका-लिप्सा गर्धेति यावत विदः। अथ वा अवशेन% अस्वतन्त्रेण ईर्ष्यापरवशेने त्यर्थः अग्रशस्तं विरुद्ध-न्यायविरोधि अन्या. य्यमिति यावद् वा वशम्-इच्छा यस्य तेन दुर्योधनेन मनसा क्षमा याः सर्वभूमेः काङ्क्षा विदधे-चक्रे कृता तस्य-दुर्योधनस्य अत्र-अत्यु स्कटपाप-पुण्याना मिहैवफलमश्नुते इति कतिपयरेव दिवसः फलप्रत्य क्षीकरणप्रवणाधिकरणे संसरणे(संसारे)आननस्य–मुखस्य विषमा मानि जनसुदुः सहा दारूणा संकटा वा दशा अवस्था स्थितिरित्यर्थः न जाता काक्का जातैवेत्यर्थः । यद्वा विषमानदशा-विषवत्-गरलवत् मानदशा मानस्य अहंकारस्य दशा-अवस्था विषतुल्यगर्वाऽवस्थेत्यर्थः जाता अभूत् । तत्रापि तस्य ताहगवस्थत्वाविषयेऽपि देवैः अघटितघटनघटित विघटनपटीयःपाटवपरिपाटीशालिभाग्याधिष्ठातृभिः अभाग्य भवनं भाग्यराहित्यं दैवाननुकूलत्वं-देवप्रातिकूल्यमिति यावत् निर णायि=निर्णीतम् निश्चितमित्यर्थः ॥ क्षमा क्षान्तौ क्षितौ इति हेमचन्द्रः वशा वन्थ्या-मुता-योषा-स्त्रीगवी-करिणीषु च । त्रिप्वायत्ते, क्लीवमायत्तत्त्वे चेच्छा-प्रभुत्वयोरिति मेदिनी । तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता अप्राशस्त्यं विरोधश्च नअर्थाः पट प्रकीर्तिताः । विषभः दारुणे संकटे चेति शब्दस्तोममहानिधिः ।
__ ऋषभादिपक्षे-यः सुयोधननृपः-सुखेन युध्यतेऽसौ सुयोधनः सुयुध् युच् स चासौ नृपान्नाभिराजादिः कृपया निष्कारणपरदुःखप्रहाणेच्छालक्षणदयया समेतः महित: जीयाऽनुकम्पीत्यर्थः काडाव. शेन-मोक्षेच्छाशालिना मनसा याः क्षमाः शान्तीः विदधे तस्य राज्ञः अत्र आननदशा विषमा प्रतिकूला न जाता विषये देवेः आप्यभाग्य. भवनम् आप्यं प्राप्यं यद्भाग्य भागधेयं तस्य भवनम् उत्पादनं निरणायि-निश्चितम् भाग्योत्पत्तावेवेहशी तीर्थकुन्जनकत्व-लोकोत्तरसाम्राज्यादिसम्भवा मुखप्रसन्नावस्थासम्भवतीति भावः ।। २३ ।।