________________
आचार्य श्रीविजया मृतसूरिप्रणीता सरणी टीका. सर्ग-४
शूरे विवादेऽन्त्ययुगे युधीति हैमः क्रिया कर्मणि चेष्टायां करणे सम्प्र धारणे. आरम्भोपाय - शिक्षा-र्चा- चिकित्सा निष्कृतिष्वपीति विश्वः । 'आरसमये' इत्यस्य आरम् - अरिसमूहं सम्यगयते = अभियातीति स तादृश इति वार्थः ।। २२ ।।
यो वा सुयाधननृपः कृपया समेतः, कालावशेन मनसा विदधे क्षमा-याः । जाताऽत्र तस्य विषमा-न-दशाननस्य,
१८५
तत्राप्यभाग्यभवनं निरणायि देवैः ॥ २३ ॥
अन्वयः -- यः सुयोधननृपः कृपयाऽसमेत: काङ्क्षावशेन मनसा या: अक्षमा: ( काङ्गावशेन मनसा अक्षमाया: विदधें, वशेन मनसा क्षमायाः काङ्क्षा, अवशेन तेन क्षमायाः काङ्क्षाः ) विदधे तस्य अन आननस्य विषमा दशा न जाता ? तत्रापि देवैः अभाग्यभवनं निरणाथि । ऋषभादिपशेयः सुयोधननृपः कृपया समेतः काङ्गावशेन मनसा या क्षमाः विदधे तस्यात्र आननस्य दशा विषमा न जाता तत्र देवैः आध्यभाग्यभवनं निरणायि ॥२३॥
व्याख्या --- यः सुयोधननृपः = दुर्योधननृपतिः कृपया=अनुग्रहेण असमेतः = रहितः द्यूतपणीकृतं द्वादशसमाः प्रकाशं वर्षमेकञ्चा प्रकाशं वनवासमतीत्यागतपाण्डवविषये तदीयराज्य प्रत्यर्पणानिच्छ्रुतया निर्दयहृदयः इत्यर्थः । काङ्क्षावशेन = लोभपरवशेन ' इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । देहि मे चतुरो ग्रामान् पञ्चमं किञ्चिदेव तु ' इत्येवं सानुनयमभ्यर्थनेऽपि कृते समग्रराज्य लिप्साचिवशेन मनसा = चेतसा याः अक्षमाः = अशान्तीः विदधे कृतवान् । यद्वा काङ्क्षावशेन = समग्रसाम्राज्य जिघृक्षापरवशेन मनसा अक्षमायाः = पाशककीडनकपटानि छलधूतानीत्यर्थः विदधे । अथ वा वशेन मनसा वशे = आयत्ततायां वशाः = अधीना वा इनाः = नृपतयो यस्य तादृशेन मनसा क्षमाया:=