________________
१८० महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाम्बे
ऋषभदेवपक्षे-त्रिदशावतारे-त्र्यधिकास्त्र्युत्तरास्त्रिसहिता वा दश त्रिदश-त्रयोदशेत्यर्थः अवताराः भवा यस्य स तसिन् । शान्ति नाथादिपक्षे । त्रिदशावतारे देवावतारे देवरूपे इत्यर्थः । यस्मात् नृपेण कृतं नाम प्रथगं युगं सुकृतं-सुसम्पादितम् 'ऋषभशान्त्योः ।' शेषेषु युगं स्वाविर्भावाधिकरणीभूतकालः कृतं कृतयुगमेव सत्ययुग मेवेत्यर्थः सुकृतम् ।।
किच रसमये-सुरनरयक्ष-गन्धर्वकिन्नरादीनां हर्षमये आनन्दप्रचुरे यद्वा अरसमये-दैत्य-दानवादीनां केशि-कंसवृषभादीनां मृत्युहेतुत्वादहर्षमये दुःखबहुले अथवा आरसमये-अरीणां समूहः आरं तस्य समये बहुशत्रुकण्टकाकीर्णकाले इत्यर्थः त्रिदशावतारे-देवस्य विष्णोः पूर्णावताररूपे राज्ञि-कृष्णवासुदेवे स्फुरति-विजयमानेऽपि सति या याज्ञिकी यज्ञः यज्ञसेनः नामैकदेशग्रहणे नामग्रहणात् भीमो भीमसेन इतिवत् तस्येयं याज्ञिकी-यज्ञसेनसम्बन्धिनी तनया-पुत्री द्रौपदी यद्वा याज्ञिकी याज्ञसेनी द्रौपदी असौ हतनया हत: भग्नो नया-नीतिर्यस्यै सा तथा कलिभृक्रिया-कलि विवाद राज्यप्रत्यर्प. णादिविषयककलहं विभौतिकलिभृक्-दुर्योधनस्तस्य क्रिया वस्त्राक. पणादिरूपकर्म यस्यां सा तादृशी सत्यपि कृष्णावता-कृष्णा द्रौपदी साऽस्त्यस्यासी कृष्णावान् तेन द्रौपदीपतिनेत्यर्थः धर्मभुवा-धर्मात्मजेन युधिष्ठिरेण धर्म इति शेषः न अत्यवाहिनात्यकामि नातिक्रान्त इत्यर्थः । दुरवग्रहदुष्टनिग्रहाग्रहिले श्रीमनिवासुदेवेऽवतीर्यभूतले विरा. जमानेऽपि सति दुष्टदुर्योधनेन परिषत्समक्षं द्रौपदी विवस्त्रीकर्तुं चेष्टिते द्यूतहारितसर्वस्वेन धर्मराजेन तदानीं तद्विरुद्धं किमपि नाचेष्टितमिति भावः। रसः स्वादे जले वीर्ये शृंगारादौ विषे द्रवे इत्यनेकार्थसंग्रहः । कृष्णा स्याद्रौपदी-नीली-कणा-द्राक्षासु योषिति इति मेदिनी। कलि.