________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग--४ १७९ पार्थिवपदार्थसार्थानां विकाशेन अन्वितायुक्ता पुष्पैः नानाविधकुसुमैरन्वितेति वा सुतरत्नजात्या खन्यादिसमुद्भूत रत्नजात्या फलिता सफला अवशा-सर्वदा कस्याऽप्यनायत्तासत्यपि असो वसुधा अमुनाश्रीविश्वसेनादिमहीपतिना भुजावलवशात्-निजभुजवीर्यमहिम्ना व्यूढा विधृता स्वायत्तीकृता सती स्वतः स्वयं स्वरसतः निजरसः मधुरादिपड्भीः तं पुरुषोत्तमं श्रीविश्वसेनादिनरेशं सेवे ।। २५ ।। कृष्णावता-समये त्रिदशावतारे,
राज्ञि स्फुरत्यपि न धर्मभुवाऽत्यवाहि । या-याज्ञिकी-ह-तनया कलिभृक्रियासो,
यस्मात्कृतं सुकृतमेव युगं नृपेण ॥ २२ ॥ अन्धयः--कृष्णावतारसमये त्रिदशावतारे राज्ञि स्फुरति सति धर्मभुवा या अयाज्ञिकीहतनया कलिभृत् क्रिया असी क्रिया न अत्यवाहि यस्मान्नृपेण युगं सुकृतमेव कृतम् ॥ २२ ॥
व्याख्या-कृष्णावतारसमये-कृष्णस्य विष्णोरष्टमावतारकाले त्रिदशावतारिदेवांशेनावर्तीणे राज्ञि-युधिष्ठिरमहीपतौ स्फुरति-विजयमाने सति धर्मभुवाविप्रेण या अयाज्ञिकी-यज्ञाय देवपूजायै हिता यज्ञमहति वा यज्ञः प्रयोजनमस्या इति वा यज्ञस्येय मिति का याज्ञिकी तद्भिन्ना हतनया-हतो भग्नो नयो-मार्गो यस्याः सा तादृशी अत एव कलिभृत्=कलिं-क्लेशं कलियुगं वा कलहं वारणं वा बिभर्ति धारयति पोषयति वा इति सा तथाविधा क्रियाकर्म असौ न अत्यवाहिन्न आहता न कृतेत्यर्थः पूजां विना न तपोमुखं धर्मकृत्य बभूवेति भावः । यस्मात्कारणात् नृपेण युग-द्वापरकालः कृतं कृतयुगमेव तत्सदृशमेवेति भावः सुकृतं मुविहितम् ।।